यस्मात् सृष्ट्वानुगृह्णीते ग्रसते चैव ते प्रजाः । गुणात्मकत्वात्र्त्रैकाल्ये तस्मादेकः स उच्यते ।। ५.
रुद्रं ब्रह्माणमिन्द्रञ्च लोक पालान् ऋषीन् दनून्। देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ।। ५.
प्राजापत्या तनुर्या च तनुर्या चैव वैष्णवी। मन्वन्तरे च कल्पे च आवर्त्तन्ते पुनः पुनः ।। ५.
तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च । जायन्ते तत्समाश्चैव तानपीह निबोधत ।। ५.
राजस्या ब्राह्मणोंऽशेन मरीचिः कश्यपोऽभवत्। तामस्यास्तस्य चांशेन कालात्मा रुद्र उच्यते । सात्त्विक्याः पुरुषांशेन यज्ञे विष्णुरभूत्तदा ।। ५.
त्रिषु कालेषु तस्यैता ब्रह्मणस्तनवोंऽशजाः। कालो भूत्वा पुनश्चासौ रुद्रः संहरते प्रजाः ।। ५.
सम्प्राप्ते चैव कल्पान्ते सप्तरश्मिर्द्दिवाकरः। भूत्वा संवर्त्तकादित्यो लोकांस्त्रीन् स तदादहत् ।। ५.
विष्णुः प्रजानुगृह्णाति नामरुपविपर्यये । तस्यान्तस्यामवस्थायां तत्तदुत्पत्तिकारणम् ।। ५.
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः। तस्यांशेन विजज्ञे स इह स्वायम्भुवेऽन्तरे। आकूत्यां मनसो देव उत्पन्नः प्रथमे विभुः ।. ५.
ततः पुनः स वै देवो प्राप्ते स्वारोचिषेऽन्तरे। तुषितायां समुत्पन्नो ह्यतीतस्तुषितैः सह ।। ५.
औत्तमे चान्तरे चैव तुषितस्तु विदुः स वै। वशवर्त्तिभिरुत्पन्नो वशवर्त्ती हरिः पुनः ।। ५.
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः। तामसस्यान्तरे चापि सम्प्राप्ते पुनरेव हि। भार्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ।। ५.
चारिष्णवेऽन्तरे चापि हरिर्दवः पुनस्तु सः। वैकुण्ठायामसौ जज्ञे ह्याभूतरजसैः सह। वैकुण्ठः स पुनर्द्देवः सम्प्राप्ते चाक्षुषेऽन्तरे ।। ५.
धर्मो नारायणः साध्यः साध्यैः सह सुरैरभूत् । स तु नारायणः साध्यः प्राप्ते वैवस्वतेऽन्तरे ।। ५.
मारीचात् कश्यपाद्विष्णुरदित्यां सम्बमूव ह। त्रिस्त्रिः क्रमैरिमान् लोकान् जित्वा विष्णुरुरुक्रमम् ।। ५.
प्रत्यपादयदिन्द्राय देवेभ्यश्चैव स प्रभुः। इत्येतासतनवस्तस्य व्यतीताः सप्त सप्तसु। मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ।। ५.
तस्माद्विष्टमिदं सर्वं वामनेनेह जायता। तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ।। ५.
इत्येते ब्रह्मणश्चैव वामनस्य महात्मनः। एकत्वञ्च पृथक्त्वञ्च विशिष्टत्वञ्च कीर्त्तितम् ।। ५.
देवतानामिहांशेन जायन्ते यास्तु देवताः। तासान्तास्तेजसा बुद्ध्या श्रुतेन च बलेन च। जायन्ते तत्समाश्चैव ता वै तेषामनुग्रहात् ।। ५.
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छघ्वं विष्णोस्तेजोंऽशसम्भवम् ।। ५.
स एवं जायतेंऽशेन केचिदिच्छन्ति मानवाः। ततोऽपरे ब्रुवन्तीममन्योन्यांशेन जायते ।। ५.
एवं विवदमानास्ते दृष्ट्वा तान्वै ब्रुवन्ति ह। यस्मान्न विद्यते भेदो मनसश्चेतसश्च ह। तस्मादनुग्रहास्तेषां क्षेत्रज्ञास्ते भवन्त्युत ।। ५.
एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः। भूत्वा यस्माच्च बहुधा भवन्येकः पुनस्तु सः ।। ५.
तस्मात्सुमनसो भेदाज्जायन्ते तेजसश्च ह। मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः। सर्गादौ सकृदुत्पन्नास्तिष्ठन्तीह प्रशंसया ।। ५.
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः। जायन्ते मोहयन्तोऽन्यानीश्वरा योगमायया ।। ५.
ऐश्वर्येण चरन्तस्ते मोहयन्ति ह्यनीश्वराः। तस्माद्दोषप्रचारेषु युक्तायुक्तं न विद्यते ।। ५.
भूतापवादिनो दुष्टा मध्यस्था भूतभाविनः। भूतापवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् ।। ५.
दृढपूर्वश्रुतत्वाच्च प्रवादाच्चैव लौकिकात्। चतुर्भिः कारणैरेभिर्यथातत्त्वं न विन्दति ।। ५.
पूर्वमर्थान्तरे न्यस्ताः कालान्तरगता अपि। तेनान्यत् सन्तमप्यर्थं द्वेषान्न प्रतिपद्यते ।। ५.
दर्शानां द्रव्यभूतो यो गुणभूतस्तु तेषु यः। कर्मणां मनसां कर्त्ता अभिजात्या च यो महान्। श्रुतज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्त्यते ।। ५.