नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे । भक्तानाञ्च पितॄणाञ्च तारकाय नमो नमः ।। ४९.
गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः। तेषां सेचनमात्रेण पितरो मोक्षगामिनः ।। ४९.
आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम्। विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ।। ४९.
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददामि। आम्रश्च तृप्ता एका क्रियाद्व्यर्थकरी प्रसिद्धा ।। ४९.
ततो यम बलिं दद्यान्मन्त्रेणानेन संयतः। यमराजधर्म्मराजौ निश्चलार्थं व्यवस्थितौ ।। ४९.
ताभ्यां बलिं प्रयच्छामि पुतॄणां मुक्तिहेतवे। ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद ।। ४९.
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां बलिं प्रयच्छामि रक्षेतां पथि सर्व्वादा ।। ४९.
ततः काकबलिं दद्यान्मन्त्रेणानेन नारद। ऐन्द्रवारुणवायव्ययाम्या वै नैऋतास्तथा ।। ४९.
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम्। फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाचरेत् ।। ४९.
गयाशिरस्यथ श्राद्धं पादे कुर्य्यात्सपिण्डकम्। साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ।। ४९.
नागाज्जनार्द्दनाद्ब्रह्मयूपाच्चोत्तरमानसात्। एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ।। ४९.
पितामहं समासाद्य यावदुत्तरमानसम्। फल्गुतीर्थन्तु विज्ञेयं देवानामपि दुर्लभम् ।। ४९.
क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः। मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ।। ४९.
मुण्डपृष्ठान्नगाधस्तात्साक्षात्तत्फल्गुतीर्थ कम्। आद्यो गदाधरो देवो व्यक्ताव्यक्तात्मना स्थितः ।। ४९.
विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवे। एतद्विष्णुपदं दिव्यं दर्शनात्पापनाशनम् ।। ४९.
स्पर्शनात्पूजनाद्वापि पितॄणां दत्तमक्षयम्। श्राद्धं सपिण्डकं कृत्वा कुलसाहस्रमात्मना ।। ४९.
नयेद्विप्णुपदं दिव्यमनन्तं शिवमव्ययम्। श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः ।। ४९.
सहात्मना शिवपुरं तथा ब्रह्मपदे नरः। ब्रह्मलोकं कुलशतं समुद्धृत्य नयेत्पितॄन् ।। ४९.
कश्यपस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन्। दक्षिणाग्निपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
गार्हपत्यपदे श्राद्धी वाजपेयफलं लभेत्। श्राद्धं कृत्वाहवनीये अश्वमेधफलं लभेत् ।। ४९.
श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत् । आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन्। अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
क्रौञ्चमातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन्। श्राद्धी सूर्य्यपदे पञ्च पापिनोऽर्क्कपुरं नयेत् ।। ४९.
कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन्। गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् ।। ४९.
गजकर्णतर्पणकृन्निर्मलं स्वर्नयेत्पितॄन्। अन्येषाञ्च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् ।। ४९.
सर्व्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम्। ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्त्तितम् ।। ४९.
प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम्। श्रेयस्करं भवेत्तत्र श्राद्धकर्त्तुश्च नारद ।। ४९.
कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा। श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ।। ४९.
शुक्लकृष्णौ ततो हस्तौ पदमुद्भिद्य निर्गतौ। दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ।। ४९.
ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः। कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ।। ४९.