ब्रह्महत्यादिपापौघ यातनाया विमुक्तये। दिवाकर करोमीह स्नानं दक्षिणमानसे ।। ४९.
नमामि सूर्य्यं तृप्त्यर्थं पितॄणां तारणाय च। पुत्रपौत्रधनैश्वर्य्यायायुरारोग्य वृद्धये ।। ४९.
अनेन स्नानपूजादि कृत्वा श्राद्धं सपिण्डकम्। कृत्वा नत्वा च मौन्यर्कमिमं मन्त्रमुदीरयेत् ।। ४९.
फल्गुतीर्थं व्रजेत्तस्मात् सर्व्वतीर्थोत्तमोत्तमम्। मुक्तिर्भवति कर्त्तॄणां पितॄणां श्राद्धतः सदा ।। ४९.
ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा। दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ।। ४९.
तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही। दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् ।। ४९.
तीर्थानि यानि सर्व्वाणि भुवनेष्वखिलेष्वपि। तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ।। ४९.
गङ्गा पादोदकं विष्णोः फल्गुर्ह्यादिगदाधरः। स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ।। ४९.
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्। नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ।। ४९.
फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः। पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये ।। ४९.
फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत्। सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ।। ४९.
नमः शिवाय देवाय ईशाय पुरुषाय वै। अघोरवामदेवाय सद्योजाताय शम्भवे ।। ४९.
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्। आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ।। ४९.
नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् । ओं नमो वासुदेवाय नमः सङ्कर्षणाय च ।। ४९.
प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे । पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् ।। ४९.
अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम्। न कुर्य्याद्यो गदापाणेस्तस्य श्राद्धमसार्थकम् ।। ४९.
नागकूटाद्गृध्रकूटाद्युपादुत्तरमानसात्। एतद्गयाशिरः प्रोक्तं फल्गुतीर्थन्तदुच्यते ।। ४९.
मुण्डपृष्ठनगाधस्तात्फल्गुतीर्थमनुत्तमम्। अत्र श्राद्धादिना सर्व्वे पितरो मोक्षमाप्नुयुः ।। ४९.
प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत्। धर्म्मारण्यं तत्र धर्म्मो यस्माद्यज्ञमकारयत् ।। ४९.
गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद। मतङ्ग वाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् ।। ४९.
गत्वा नत्वा मतङ्गेशमिमं मन्त्रमुदीरयेत्। प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः ।। ४९.
मयागत्यमतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता। पूर्व्वं हि ब्रह्मतीर्थं च कूपे श्राद्धादि कारयेत् ।। ४९.
तत्कूपयूपयोर्म्मध्ये सर्व्वांस्तारयते पितॄन्। धर्म्मं धर्म्मेश्वरं नत्वा महाबोधितरुं नमेत् ।। ४९.
नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने। बोधिद्रमाय कर्तॄणां पितॄणां तारणाय च ।। ४९.
येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः। त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ।। ४९.
ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट्। त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ।। ४९.
तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम्। कृत्वा सर्व्वप्रमाणेन मन्त्रेण विधिवत्सुतः ।। ४९.
स्नानं करोमि तीर्थेऽस्मिन् ऋणत्रयविमुक्तये। तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ।। ४९.
यागं कृत्वोत्थियो यूपो ब्रह्मणा यूप इत्यसौ। कृत्वा ब्रह्मसरःश्राद्धं सर्व्वांस्तारयते पितॄन् ।। ४९.
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत्। ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ।। ४९.