जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा। मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः। मृता असंस्कृता ये च तेब्यः पिण्डं ददाम्यहम् ।। ४८.
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम। ते सर्व्वे तृप्तिमायान्तु पिण्डेनानेन सर्व्वदा ।। ४८.
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः। तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.
पितृवंशे मृता ये च मातृवंशे च ये मृताः। गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ।। ४८.
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः। क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ।। ४८.
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम। तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः। कुलद्वये ये मम दासभूता भृत्या स्तथैवाश्रितसेवकाश्च ।। ४८.
मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ।। ४८.
एतैश्च सर्व्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समूह्य च। पिण्डान्दद्याद्यथापूर्व्वं स्त्रीणां मात्रादिकक्रमात् ।। ४८.
स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम्। अपृथङ् निष्फलं श्राद्धं पिण्डञ्चोदकतर्पणम् ।। ४८.
पिण्डपात्रे तिलान्क्षिप्त्वा पूरयित्वा शुभोदकैः। परिषिच्य त्रिधा सर्वान् प्रणिपत्य समापयेत् ।। ४८.
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् । साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा। मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।। ४८.
आगतोऽस्मि गयां देव पितृकार्य्ये गदाधर। त्वमेव साक्षी भगवन्ननृणोऽहमृणत्रयात् ।। ४८.
सर्व्वस्थानेषु चैवं स्यात् पिण्डदानन्तु नारद। प्रेतपर्व्वतमारभ्य कुर्य्यात्तीर्थेषु च क्रमात् ।। ४८.
तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्व्वते। अपसव्येन देवर्षे दक्षिणाभिमुखेन च ।। ४८.
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम। ते सर्व्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ।। ४८.
आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चित्सचराचरम्। मया दत्तेन तोयेन तृप्तिमायान्तु सर्व्वशः ।। ४८.
प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद। प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ।। ४८.
नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्तये। तीर्थमन्त्रादिरूपेण स्थित श्चादिगदाधरः ।। ४८.
आदौ तु पञ्चतीर्थेषु चोत्तरे मानसे विधिः। आचम्य कुशहस्तेन शिरश्चाभ्युक्ष्य वारिणा ।। ४९.
उत्तरं मानसं गच्छेन्मन्त्रेण स्नानमाचरेत्। उत्तरे मानसे स्नानं करोम्यात्मविशुद्धये ।। ४९.
सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये। देवादींस्तर्पयित्वाथ श्राद्धं कुर्यात् सपिण्डकम् ।। ४९.
मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम्। सूर्य्यं नत्वार्च्चयित्वाथ सूर्य्यलोकं नयेत्पितॄन् ।। ४९.
नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे। जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ।। ४९.
उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम्। उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् । अत्र स्नातो दिवं याति स्वशरीरेण मानवः ।। ४९.
मध्ये कनखलं तीर्थं त्रिषुलोकेषु विश्रुतम्। स्नातः कनकवद्भाति नरो याति पवित्रताम् ।। ४९.
तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम्। अतः कनखलं लोके ख्यातं तीर्थमनुत्तमम् ।। ४९.
दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम्। स्नात्वा तेषु विधानेन कुय्याच्छ्राद्धं पृथक्पृथक् ।। ४९.
दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये। सूर्य्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये ।। ४९.