अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे। विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
दावदाहे मृता ये च सिंहव्याग्रहताश्च ये। दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये। आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः। भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः। तेषामुद्धरणार्ताय इमं पिण्डं ददाम्यहम् ।। ४८.
असिपत्रवने घोरे कुम्भीपाकेषु ये गताः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अनेकयातनासंस्था ये नीता यमकिङ्करैः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
पशुयोनि गता येच पक्षिकीटसरीसृपाः। अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्म्मणा। मानुष्यं दुर्ल्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः। मृता असंस्कृता ये च तेब्यः पिण्डं ददाम्यहम् ।। ४८.
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम। ते सर्व्वे तृप्तिमायान्तु पिण्डेनानेन सर्व्वदा ।। ४८.
येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः। तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.
पितृवंशे मृता ये च मातृवंशे च ये मृताः। गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ।। ४८.
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः। क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ।। ४८.
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम। तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः। कुलद्वये ये मम दासभूता भृत्या स्तथैवाश्रितसेवकाश्च ।। ४८.
मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः। जन्मान्तरे ये मम सङ्गताश्च तेभ्यः स्वधा पिण्डमहं ददामि ।। ४८.
एतैश्च सर्व्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समूह्य च। पिण्डान्दद्याद्यथापूर्व्वं स्त्रीणां मात्रादिकक्रमात् ।। ४८.
स्वगोत्रे परगोत्रे वा दम्पत्योः पिण्डपातनम्। अपृथङ् निष्फलं श्राद्धं पिण्डञ्चोदकतर्पणम् ।। ४८.
पिण्डपात्रे तिलान्क्षिप्त्वा पूरयित्वा शुभोदकैः। परिषिच्य त्रिधा सर्वान् प्रणिपत्य समापयेत् ।। ४८.
पितॄन्विसृज्य चाचम्य साक्षिणः श्रावयेत्सुरान् । साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा। मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।। ४८.
आगतोऽस्मि गयां देव पितृकार्य्ये गदाधर। त्वमेव साक्षी भगवन्ननृणोऽहमृणत्रयात् ।। ४८.
सर्व्वस्थानेषु चैवं स्यात् पिण्डदानन्तु नारद। प्रेतपर्व्वतमारभ्य कुर्य्यात्तीर्थेषु च क्रमात् ।। ४८.
तिलमिश्रांस्ततः सक्तून्निःक्षिपेत्प्रेतपर्व्वते। अपसव्येन देवर्षे दक्षिणाभिमुखेन च ।। ४८.
ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम। ते सर्व्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ।। ४८.
आब्रह्मस्तम्बपर्य्यन्तं यत्किञ्चित्सचराचरम्। मया दत्तेन तोयेन तृप्तिमायान्तु सर्व्वशः ।। ४८.
प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद। प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ।। ४८.
नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्तये। तीर्थमन्त्रादिरूपेण स्थित श्चादिगदाधरः ।। ४८.