अष्टकासु च वृद्धौ च गयायां च मृतेऽहनि । मातुः श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ।। ४८.
वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्। पाद्यपूर्वं समारभ्य दक्षिणाग्रकुशैः क्रमात्। पित्रादीनां समास्तीर्य शेषं गृह्योक्तमाचरेत् ।। ४८.
दद्युः श्राद्धं सपिण्डानां तेषां दक्षिणभागतः। कुशानास्तीर्यं विधिना सकृद्दत्वा तिलोदकम् ।। ४८.
गृहीत्वाञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः। सक्तुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम्। सम्बन्धिनस्तिलाद्भिश्च कुशेष्वावाहयेत्ततः ।। ४८.
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः। तृप्यन्तु पितरः सर्वे मातृमातामहादयः ।। ४८.
अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम्। आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ।। ४८.
पिता पितामह श्चैव तथैव प्रपितामहः। माता पितामही चैव तथैव प्रपितामही ।। ४८.
मातामहस्तत्पिता च प्रमातामहकादयः। तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ।। ४८.
मुष्टिमात्रप्रमाणञ्च ह्यार्द्रामलकमात्रकम्। शमीफत्रप्रमाणं वा पिण्डं दद्याद्गयाशिरे। उद्धरेत्सप्तगोत्राणि कुलानि शतमुद्धरेत् ।। ४८.
पितुर्मातुः स्वभार्याया भगिन्या दुहितुस्तथा। पितृष्वसुर्मातृष्वसुः सप्त गोत्राः प्रकीर्त्तिताः ।। ४८.
चतुर्विंशतिविंशश्च षोडश द्वादशैव हि। रुद्रादिवसवश्चैव कुलान्येकोत्तरं शतम् ।। ४८.
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः। न कारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ।। ४८.
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्। दक्षिणा चान्नसङ्कल्पं तीर्थश्राद्धेष्वयंविधिः ।। ४८.
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते। आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः ।। ४८.
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते। आवाहयिष्ये तान्त्सर्वान् दर्भपृष्ठे तिलोदकैः ।। ४८.
इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान्। आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ।। ४८.
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
मातामहकुले ये च गतिर्येषां न विद्यते। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथा परे। विद्युच्चोरहता ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
दावदाहे मृता ये च सिंहव्याग्रहताश्च ये। दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये। आत्मापघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
अरण्ये वर्त्मनि वने क्षुधया तृषया हताः। भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.
रौरवे चान्धतामिस्रे कालसूत्रे च ये गताः। तेषामुद्धरणार्ताय इमं पिण्डं ददाम्यहम् ।। ४८.
असिपत्रवने घोरे कुम्भीपाकेषु ये गताः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अनेकयातनासंस्थाः प्रेतलोकञ्च ये गताः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
अनेकयातनासंस्था ये नीता यमकिङ्करैः। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ।। ४८.
पशुयोनि गता येच पक्षिकीटसरीसृपाः। अथवा वृक्षयोनिस्थास्तेभ्यः पिण्डं ददाम्यहम् ।। ४८.