श्रद्धया ये नमस्यन्ति सतोत्रेणादिगदाधरम्। स्तोष्यन्ति च समभ्यर्च्य पितॄन्नेष्यन्ति माधवम्। शिवोऽपि परया प्रीत्या तुष्टावादिगदाधरम् ।। ४७.
अव्यक्तरूपो यो देवो मुण्डपृष्ठादिरूपतः । फल्गुतीर्थादिरूपेण नमाम्यादिगदाधरम् ।। ४७.
व्यक्ताव्यक्तस्वरूपेण पदरूपेण संस्थितः। मुखलिङ्गादिरूपेण नमाम्यादिगदाधरम् ।। ४७.
अव्यक्तरूपो यो देवो जनार्दनस्वरूपतः। मुण्डपृष्ठे स्वयं जातो नामाम्यादिगदा धरम् ।। ४७.
शिलायां देवरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः। पूजितं सत्कृतं देवैस्तं नमामि गदाधरम् ।। ४७.
यं च दृष्ट्वा ततः स्पृष्ट्वा पूजयित्वा प्रणम्य च । श्राद्धादौ ब्रह्मलोकाप्तिर्नमाम्यादिगदाधरम् ।। ४७.
महदादेश्च जगतो व्यक्तस्यैकं हि कारणम्। अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ।। ४७.
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्। जाग्रत्स्वप्नविनिर्मुक्तं नमाम्यादिगदाधरम् ।। ४७.
नित्यानित्यविनिर्मुक्तं सत्यमानन्दमव्ययम्। तुरीयं ज्योतिरात्मानं नमाम्यादिगदाधरम् ।। ४७.
एवं स्तुतो महेशेन प्रीतो ह्यादिगदाधरः। स्थितो देवः शिलायां स ब्रह्माद्यैर्दैवतैः सह ।। ४७.
संस्थितं मुण्डपृष्ठाद्रौ देवमादिगदाधरम्। स्तुवन्ति पूजयन्तीह ब्रह्मलोकं प्रयान्तु ते ।। ४७.
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ।। ४७.
वन्ध्या च लभते पुत्रं वेदवेदाङ्गपारगम्। राजा विजयमाप्नोति शूद्रश्च सुखमाप्नुयात् ।। ४७.
पुत्रार्थी लभते पुत्रानभ्यर्च्यादिगदाधरम्। मनसा प्रार्थितं सर्वं पूजाद्यैः प्राप्नुयाद्धरेः ।। ४७.
गयायात्रां प्रवक्ष्यामि श्रृणु नारद मुक्तिदाम्। निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ।। ४८.
उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् ।। ४८.
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्। ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ।। ४८.
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः। अहङ्कारविमुक्तो यः स तीर्थफलमश्नुते ।। ४८.
यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम्। विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ४८.
ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी । तत्र तोयं समुत्पाट्य स्नातव्यं निर्मले जले ।। ४८.
देवादींस्तर्पयित्वाथ श्राद्धं कृत्वा यथाविधिः । स्ववेदशाखागदितमर्घ्यावाहनवर्जितम् ।। ४८.
अपरेऽह्नि शुचिर्भूत्वा गच्छेद्वै प्रेतपर्वते । ब्रह्मकुण्डे ततः स्नात्वा देवादींस्तर्पयेत्सुधीः ।। ४८.
कुर्य्याच्छ्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते। प्राचीनावीतिना भाव्यं दक्षिणाभिमुखः सुधीः ।। ४८.
कव्यबालोऽनलः सोमो यमश्चैवार्य्यमा तथा। अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ।। ४८.
आगच्छन्तु महाभागा युष्माभी रक्षितास्त्विह। मदीयाः पितरो ये च कुले जाताः सनाभयः ।। ४८.
तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्। ते सर्वे तृप्तिमायान्तु श्राद्देनानेन शाश्वतीम् ।। ४८.
आचम्योक्ताव च पञ्चाङ्गं प्राणायामं प्रयत्नतः। पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ।। ४८.
एवञ्च विधिवच्छ्राद्धं कृत्वा पूर्वं यताक्रमम्। पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदो भवेत् ।। ४८.
तीर्थे प्रेतशिलादौ च चरुणा सघृतेन वा । प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक्पृथक्। तैर्मन्त्रैरथ संपूज्य पञ्चगव्यैश्च देवताम् ।। ४८.
यावत्तिला मनुष्यैश्च गृहीता पितृकर्मसु। गच्छन्ति तावदसुराः सिंहत्रस्ता यथा मृगाः ।। ४८.