सनत्कुमार उवाच।। देवैः सार्द्धं ब्रह्मणैवं स्तुतश्चादिगदाधरः । ऊचे वरं वृणीष्व त्वं वरं ब्रह्मा तमब्रवीत् ।। ४७.
शिलायां देवरूपिण्यां न तिष्ठामस्त्वया विना। स्थास्यामोऽत्र त्वया सार्द्धं नित्यं व्यक्तादिरूपिणा ।। ४७.
एवमस्तु श्रिया सार्द्धं स्थितश्चादिगदाधरः। लोकानां रक्षणार्थाय जगतां मुक्तिहेतवे। सुव्यक्तः पुण्डरीकाक्षो जनार्दन इति श्रुतः ।। ४७.
वेदैरगम्या या मूर्त्तिरादिभूता सनातनी। सुव्यक्ता श्वेतकल्पे सा भविष्यति तथा पुनः। वाराहकल्पे ह्यव्यक्ता व्यक्तिमप्यगमत्पुरा ।। ४७.
सन्तारणाय लोकानां देवानां रक्षणाय च। गयाशिरसि सुव्यक्तो भविष्यति न संशयः ।। ४७.
ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम्। कुष्ठरोगादिनिर्म्मुक्ता यास्यन्ति हरिमन्दिरम् ।। ४७.
ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम्। ते प्राप्स्यन्ति धनं धान्यमायुरारोग्यमेव च ।। ४७.
कलत्रपुत्रपौत्रादिगुणकीर्त्तिसुखानि च। श्रद्धया ये नमस्यन्ति राज्यं ब्रह्मपुरं तथा। भुक्त्वा व्रजेयुः सततं पुण्यपुञ्जफलं नराः ।। ४७.
गन्धदानेन गन्धाढ्यः सौभाग्यं पुष्पदानतः। धूपदानेन राज्याप्तिर्दीपाद्दीप्तिर्भविष्यति ।। ४७.
ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक्। श्राद्धपिण्डप्रदो यस्तु विष्णुं नेष्यति वै पितॄन् ।। ४७.
श्रद्धया ये नमस्यन्ति सतोत्रेणादिगदाधरम्। स्तोष्यन्ति च समभ्यर्च्य पितॄन्नेष्यन्ति माधवम्। शिवोऽपि परया प्रीत्या तुष्टावादिगदाधरम् ।। ४७.
अव्यक्तरूपो यो देवो मुण्डपृष्ठादिरूपतः । फल्गुतीर्थादिरूपेण नमाम्यादिगदाधरम् ।। ४७.
व्यक्ताव्यक्तस्वरूपेण पदरूपेण संस्थितः। मुखलिङ्गादिरूपेण नमाम्यादिगदाधरम् ।। ४७.
अव्यक्तरूपो यो देवो जनार्दनस्वरूपतः। मुण्डपृष्ठे स्वयं जातो नामाम्यादिगदा धरम् ।। ४७.
शिलायां देवरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः। पूजितं सत्कृतं देवैस्तं नमामि गदाधरम् ।। ४७.
यं च दृष्ट्वा ततः स्पृष्ट्वा पूजयित्वा प्रणम्य च । श्राद्धादौ ब्रह्मलोकाप्तिर्नमाम्यादिगदाधरम् ।। ४७.
महदादेश्च जगतो व्यक्तस्यैकं हि कारणम्। अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ।। ४७.
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्। जाग्रत्स्वप्नविनिर्मुक्तं नमाम्यादिगदाधरम् ।। ४७.
नित्यानित्यविनिर्मुक्तं सत्यमानन्दमव्ययम्। तुरीयं ज्योतिरात्मानं नमाम्यादिगदाधरम् ।। ४७.
एवं स्तुतो महेशेन प्रीतो ह्यादिगदाधरः। स्थितो देवः शिलायां स ब्रह्माद्यैर्दैवतैः सह ।। ४७.
संस्थितं मुण्डपृष्ठाद्रौ देवमादिगदाधरम्। स्तुवन्ति पूजयन्तीह ब्रह्मलोकं प्रयान्तु ते ।। ४७.
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ।। ४७.
वन्ध्या च लभते पुत्रं वेदवेदाङ्गपारगम्। राजा विजयमाप्नोति शूद्रश्च सुखमाप्नुयात् ।। ४७.
पुत्रार्थी लभते पुत्रानभ्यर्च्यादिगदाधरम्। मनसा प्रार्थितं सर्वं पूजाद्यैः प्राप्नुयाद्धरेः ।। ४७.
गयायात्रां प्रवक्ष्यामि श्रृणु नारद मुक्तिदाम्। निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ।। ४८.
उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेशं कृत्वा ग्रामं प्रदक्षिणम् ।। ४८.
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्। ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ।। ४८.
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः। अहङ्कारविमुक्तो यः स तीर्थफलमश्नुते ।। ४८.
यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम्। विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ४८.
ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी । तत्र तोयं समुत्पाट्य स्नातव्यं निर्मले जले ।। ४८.