कथं गदा समुत्पन्ना यथा ह्यादिगदाधरः। गदालोलं कथं चासीत् सर्व्वपापक्षयङ्करम् ।। ४७.
सनत्कुमार उवाच।। गदो नामासुरो ह्यासीद्वज्राद्वज्रतरो दृढः। तपसा दारुणेनासौ ब्रह्मलब्धवरः पुरा। प्रार्थितो ब्रह्मणे प्रादात्स्वशरीरास्थि दुस्त्यजम् ।। ४७.
ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतां तदा। तदस्थि वज्रनिष्पेषैः कुन्दैः स्वर्गे ह्यधारयत् ।। ४७.
अथ कालेन महता मनौ स्वायम्भुवे क्वचित। हेती रक्षो ब्रह्मपुत्रः तपस्तेपे सुदारुणम् ।। ४७.
दिव्यवर्षसहस्राणां शतं वायुमभक्षयत्। उन्मुखश्चोर्द्ध्वबाहुश्च पादाङ्गुष्ठभरेण ह ।। ४७.
एकेनातिष्ठदव्यग्रः शीर्णपर्णानिलाशनः। ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ।। ४७.
देवैर्दैत्यैश्च शस्त्रैर्विविधैर्मनुजादिभिः। कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ।। ४७.
तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाजयत्। इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ।। ४७.
हरिं ते शरणं जग्मुरूचुर्हेतिं जहीति तान् । ऊचे हरिरवध्योऽयं हेतिर्देवासुरैः सुराः ।। ४७.
महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम्। इत्युक्तास्ते ततो देवा गदां तां हरये ददुः ।। ४७.
दधार तां गदामादौ देवैरुक्तो गदाधरः । गदया हेतिमाहत्य देवैः स त्रिदिवं ययौ ।। ४७.
गदामादाववष्टभ्य गयासुरशिरःशिलाम्। निश्चलार्थं स्थितो यस्मात्तस्मादादिगदाधरः ।। ४७.
शिलापर्वतरूपेण व्यक्त आदिगदाधरः । शिलासौ मुण्डपृष्ठाद्रिः प्रभासो नामपर्व्वतः ।। ४७.
उद्यन्तो गीतनादश्च भस्मकूटो गिरिर्म्महान्। गृध्र कूटः प्रेतकूटश्चादिपालोऽरविन्दकः ।। ४७.
पञ्चलोकः सप्तलोको वैकुण्ठो लोहदण्डकः । क्रौञ्चपादोऽक्षयवटः फल्गुतीर्थं मधुश्रवाः ।। ४७.
दधिकुल्या मधुकुल्या देविका च महानदी। वैतरण्यादिरूपेण व्यक्त आदिगदाधरः ।। ४७.
विष्णोः पदं रुद्रपदं ब्रह्मणः पदमुत्तमम्। काश्यपस्य पदं दिव्यं द्वौ हस्तौ यत्र निर्गतौ ।। ४७.
पञ्चाग्नीनां पदान्यत्र इन्द्रागस्त्यपदे परे। रवेश्च कार्त्तिकेयस्य क्रौञ्चमातङ्गयोरपि ।। ४७.
मुख्यलिङ्गानि सर्व्वाणि व्यक्ताव्यक्तात्मना स्थितः। आद्यो गदाधरश्चैव व्यक्तः श्रीमान् गदाधरः ।। ४७.
गायत्री चैव सावित्री सन्ध्या चैव सरस्वती । गयादित्यश्चोत्तरार्को दक्षिणार्कोऽपि नैमिषः ।। ४७.
श्वेतार्को गणनाथश्च वसवोऽष्टौ मुनीश्वराः। रुद्राश्चैकादशैवाथ तथा सप्तर्षयोऽपरे ।। ४७.
सोमनाथश्च सिद्धेशः कपर्द्दीशो विनायकः। नारायणो महालक्ष्मीर्ब्रह्मा श्रीपुरुषोत्तमः ।। ४७.
मार्कण्डेयेशः कौटीशो ह्यङ्गिरेशः पितामहः। जनार्दनो मङ्गला च पुण्डरीकाक्ष उत्तमः ।। ४७.
इत्यादिव्यक्तरूपेण स्थितश्चादिगदाधरः। हेतिर्यो राक्षसस्तस्मिन्हते विष्णुः पुरं गतः ।। ४७.
ब्रह्मणा सह रुद्राद्यैः कारिते निश्चलेऽसुरे । तुष्टावाद्यगदापाणिं वेधा हर्षेण निर्वृतः ।। ४७.
ब्रह्मोवाच।। गदाधरं व्यपगतकालकल्मषं गयागतं विदितगुणं गुणातिगम्। गुहागतं गिरिवरगौरगेहगं गणार्च्चितं वरदमहं नमामि ।। ४७.
अहःश्रियं त्रिदशगणादिसुश्रियं भवश्रियं दितिभवदारणश्रियम्। कलिश्रियं कलिमलमर्दनश्रियं गदाधरं नौमि तमाश्रितश्रियम् । ४७.
दृढादॄढं परिवृढगाढसंस्तुतं कामाद्भुतं सुदृढमरूढिरूढिगम्। तमाढ्यगं दृढदुरिताद्यढौकितं स्वढौकृतं दृढतरगोत्रसूक्तिभम् ।। ४७.
विदेहकं करणकलाविवर्जितं विजन्मकं दिवकरवेदिभूषितम्। गदाधरं ध्वनिमुखवर्जितं परं नमाम्यहं सतत मनादिमीश्वरं हरिम् ।। ४७.
मनोऽतिगं मतिगतिवर्जितं परं सदाद्वयं स्तुतिशिरसि संस्तुतं बुधैः। चिदात्मकं कलिगतकारणातिगं गदाधरं हृदयगतं नमामि तम् ।। ४७.