निक्षरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः। कुर्य्यात्क्रौञ्चपदे दिव्ये नियमाद्वासरत्रयम्। सर्वान्पितॄन्नयेत्स्वर्गं पञ्चपापिन एव च ।। ४६.
जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः। आत्मनोऽप्यथवान्येषां सव्येनापि तिलैर्विना। जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ।। ४६.
यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्दन। यदुद्दिश्य त्वया देयस्तस्मिन्पिण्डो मृते प्रभो ।। ४६.
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन। अन्तकाले गते मह्यं त्वया देयो गयाशिरे ।। ४६.
जनार्दन नमस्तुभ्यं नमस्ते पितृमोक्षद। पितृपते नमस्तेऽस्तु नमस्ते पितृरूपिणे ।। ४६.
गयायां पितृरूपेण स्वयमेव जनार्दनः। तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।। ४६.
नमस्ते पुण्डरीकाक्ष ऋणत्रयविमोचक। लक्ष्मीकान्त नमस्तेऽस्तु पितॄणां मोक्षदो भव ।। ४६.
वामजानु सुसंपात्य नत्वा भीमो जनार्दनम्। श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक्। पितृभिः सह धर्मात्मा कुलानाञ्च शतेन च ।। ४६.
शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः। लक्ष्मीशो विभुधैः सार्द्धं तस्माद्देवमयी शिला ।। ४६.
.नारद उवाच।। कथं व्यक्तस्वरूपेण स्थितश्चादिगदाधरः। कथं व्यक्तस्वरूपेण व्यक्ताव्यक्तात्मना स्थितः ।। ४७.
कथं गदा समुत्पन्ना यथा ह्यादिगदाधरः। गदालोलं कथं चासीत् सर्व्वपापक्षयङ्करम् ।। ४७.
सनत्कुमार उवाच।। गदो नामासुरो ह्यासीद्वज्राद्वज्रतरो दृढः। तपसा दारुणेनासौ ब्रह्मलब्धवरः पुरा। प्रार्थितो ब्रह्मणे प्रादात्स्वशरीरास्थि दुस्त्यजम् ।। ४७.
ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भुतां तदा। तदस्थि वज्रनिष्पेषैः कुन्दैः स्वर्गे ह्यधारयत् ।। ४७.
अथ कालेन महता मनौ स्वायम्भुवे क्वचित। हेती रक्षो ब्रह्मपुत्रः तपस्तेपे सुदारुणम् ।। ४७.
दिव्यवर्षसहस्राणां शतं वायुमभक्षयत्। उन्मुखश्चोर्द्ध्वबाहुश्च पादाङ्गुष्ठभरेण ह ।। ४७.
एकेनातिष्ठदव्यग्रः शीर्णपर्णानिलाशनः। ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ।। ४७.
देवैर्दैत्यैश्च शस्त्रैर्विविधैर्मनुजादिभिः। कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ।। ४७.
तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाजयत्। इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ।। ४७.
हरिं ते शरणं जग्मुरूचुर्हेतिं जहीति तान् । ऊचे हरिरवध्योऽयं हेतिर्देवासुरैः सुराः ।। ४७.
महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम्। इत्युक्तास्ते ततो देवा गदां तां हरये ददुः ।। ४७.
दधार तां गदामादौ देवैरुक्तो गदाधरः । गदया हेतिमाहत्य देवैः स त्रिदिवं ययौ ।। ४७.
गदामादाववष्टभ्य गयासुरशिरःशिलाम्। निश्चलार्थं स्थितो यस्मात्तस्मादादिगदाधरः ।। ४७.
शिलापर्वतरूपेण व्यक्त आदिगदाधरः । शिलासौ मुण्डपृष्ठाद्रिः प्रभासो नामपर्व्वतः ।। ४७.
उद्यन्तो गीतनादश्च भस्मकूटो गिरिर्म्महान्। गृध्र कूटः प्रेतकूटश्चादिपालोऽरविन्दकः ।। ४७.
पञ्चलोकः सप्तलोको वैकुण्ठो लोहदण्डकः । क्रौञ्चपादोऽक्षयवटः फल्गुतीर्थं मधुश्रवाः ।। ४७.
दधिकुल्या मधुकुल्या देविका च महानदी। वैतरण्यादिरूपेण व्यक्त आदिगदाधरः ।। ४७.
विष्णोः पदं रुद्रपदं ब्रह्मणः पदमुत्तमम्। काश्यपस्य पदं दिव्यं द्वौ हस्तौ यत्र निर्गतौ ।। ४७.
पञ्चाग्नीनां पदान्यत्र इन्द्रागस्त्यपदे परे। रवेश्च कार्त्तिकेयस्य क्रौञ्चमातङ्गयोरपि ।। ४७.
मुख्यलिङ्गानि सर्व्वाणि व्यक्ताव्यक्तात्मना स्थितः। आद्यो गदाधरश्चैव व्यक्तः श्रीमान् गदाधरः ।। ४७.
गायत्री चैव सावित्री सन्ध्या चैव सरस्वती । गयादित्यश्चोत्तरार्को दक्षिणार्कोऽपि नैमिषः ।। ४७.