अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः। ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ।। ४६.
लोपामुद्रां तथा भार्य्यां पितॄणां परमां गतिम्। तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ।। ४६.
अगस्त्यञ्च सभार्य्यञ्च पितॄन्ब्रह्मपुरं नयेत्। दण्डिनाथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ।। ४६.
वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः। तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी। कपिलेशो नदीतीरे ह्यमासोमसमागमे ।। ४६.
कपिलायां नरः स्नात्वा कपिलेशं समर्च्य च। कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ।। ४६.
तत्राग्निधारा गिरिवरादागतोद्यन्तकादनु। तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ।। ४६.
शुक्रस्तत्र सुतैः सार्द्धं षण्डामर्क्कादिभिः प्रभुः। तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम। श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ।। ४६.
शिलाया वामहस्तेऽपि गृद्रकूटो गिरिर्धृतः। गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ।। ४६.
अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः। दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छम्भोः पदं नरः ।। ४६.
तत्र गृध्रे गुहायाञ्च पिण्डदः शिवलोकभाक् । तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ।। ४६.
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत्। शूरक्षेत्रञ्च तत्रास्ते पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.
आदिपालेन गिरिणा समाक्रान्तं शिलोदरम्। तत्रास्ते गजरूपेण विघ्रेशो विग्ननाशनः। तं दृष्ट्वा मुच्यते विघ्नैः पितॄन् ब्रह्मपुरं नयेत् ।। ४६.
नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत्। मुण्डपृष्ठारविन्द्राद्री दृष्ट्वा पापं विनाशयेत्। गयानाभौ सुषुम्नायां पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.
शिलाया वामपादे तु स्थापितः प्रेतपर्वतः। धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ।। ४६.
पादेन दूरे निक्षिप्तः शिलायाः पादभारतः। गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ।। ४६.
प्रेतकुण्डञ्च तत्रास्ते देवास्तत्र पदे स्थिताः। तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ।। ४६.
पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते। श्राद्धादिकारिणां नॄणां तीर्थे पितृविमुक्तये। प्रेता धानुष्करूपेण करग्रहणकारकाः ।। ४६.
पादाङ्कितां मुण्डपृष्ठां महादेवनिवासिनीम्। तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ।। ४६.
गयाशिरसि पुण्ये च सर्वपापैर्विवर्जिते। ग्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ।। ४६.
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ।। ४६.
वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शोणकः। अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् ।। ४६.
क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत्। तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ।। ४६.
स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम्। बलिः काकशिलायाञ्च काकेभ्य ऋणमोक्षदः ।। ४६.
मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः। द्वावेतौ परमं तप्त्वा तपःसिद्धिं परां गतौ ।। ४६.
आहूतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी। शरावती वेत्रवती चन्द्रभागा सरस्वती ।। ४६.
कावेरी सिन्धुरीरा च चन्दना च सरिद्वरा। वासिष्ठी सरयूर्गङ्गा यमुना गण्डकीन्दिरा ।। ४६.
महावैतरणी नाम्ना निक्षरा च दिवौकसः । सावव्यलकनन्दा च ह्युदीची कन्काह्वया ।। ४६.
कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी। कृष्णवल्वा चर्म्मवती द्वे नद्यौ मुक्तिदायिके ।। ४६.
आहूते सरितां श्रेष्ठे लोमह्रर्षेण साहसात् । तपसस्तु प्रभावेण नर्म्मदा मुनिपुङ्गव। तासु सर्वासु यः स्नात्वा पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.
ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः। परं ब्रह्म स यातीह विमुक्तो योनिसङ्कटात् ।। ४६.