स पर्वतः समानीतो ह्यगस्त्येन महात्मना। तत्र ब्रह्मा हरश्चैव तपश्चोग्रञ्च चक्रतुः ।। ४६.
तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम्। यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम्। कुण्डे मुन्यष्टकं नत्वा पितॄन्ब्रह्मपुरं नयेत् ।। ४६.
अगस्त्येनाथ देवर्षे ह्युदयाद्रेर्महात्मना। शिलाया वामहस्तेऽपि स्थापितो गिरिराट् शुभः। वादित्राद्यैर्दिव्यगीतैराढ्यो वादित्रको गिरिः ।। ४६.
तत्र विद्याधरो नाम गन्धर्वाप्सरसाङ्गणैः। समेतोऽद्यापि कीतानि दिव्यानि सह गीयते ।। ४६.
मोहनश्च सुनीथश्च शैलूजो मोहनोत्तमः। पर्वतो नारदध्यानी सङ्गीती पुष्पदन्तकः। हाहा हूहूप्रभृतयो गीतदानं प्रजक्रिरे ।। ४६.
तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः। गायति मधुराण्येव गीतान्यद्रौ महोत्सवम् ।। ४६.
अतः स पर्वतो देवैः सेव्यतेऽद्यापि नित्यशः। धर्मजास्तत्र देवेशो हरो भस्माङ्गरागवान् ।। ४६.
पार्वत्या सहितो रुद्रः पर्वते गीतनादिते। मोदते पूजितोद्येयः पितॄणां परमां गतिम् ।। ४६.
गयायां परमात्मा हि गोपतिर्वा गदाधरः। हीयते वैष्णवी माया तथा रुद्रार्च्चया मुने ।। ४६.
शिलाया दक्षिणे हस्ते भस्मकूटो गिरिर्धृतः। धर्म्मराजेन तत्रास्ते ह्यगस्त्यः सह भार्य्यया ।। ४६.
अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः। ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ।। ४६.
लोपामुद्रां तथा भार्य्यां पितॄणां परमां गतिम्। तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ।। ४६.
अगस्त्यञ्च सभार्य्यञ्च पितॄन्ब्रह्मपुरं नयेत्। दण्डिनाथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ।। ४६.
वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः। तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी। कपिलेशो नदीतीरे ह्यमासोमसमागमे ।। ४६.
कपिलायां नरः स्नात्वा कपिलेशं समर्च्य च। कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ।। ४६.
तत्राग्निधारा गिरिवरादागतोद्यन्तकादनु। तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ।। ४६.
शुक्रस्तत्र सुतैः सार्द्धं षण्डामर्क्कादिभिः प्रभुः। तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम। श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ।। ४६.
शिलाया वामहस्तेऽपि गृद्रकूटो गिरिर्धृतः। गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ।। ४६.
अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः। दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छम्भोः पदं नरः ।। ४६.
तत्र गृध्रे गुहायाञ्च पिण्डदः शिवलोकभाक् । तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ।। ४६.
ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत्। शूरक्षेत्रञ्च तत्रास्ते पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.
आदिपालेन गिरिणा समाक्रान्तं शिलोदरम्। तत्रास्ते गजरूपेण विघ्रेशो विग्ननाशनः। तं दृष्ट्वा मुच्यते विघ्नैः पितॄन् ब्रह्मपुरं नयेत् ।। ४६.
नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत्। मुण्डपृष्ठारविन्द्राद्री दृष्ट्वा पापं विनाशयेत्। गयानाभौ सुषुम्नायां पिण्डदः स्वर्नयेत्पितॄन् ।। ४६.
शिलाया वामपादे तु स्थापितः प्रेतपर्वतः। धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ।। ४६.
पादेन दूरे निक्षिप्तः शिलायाः पादभारतः। गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ।। ४६.
प्रेतकुण्डञ्च तत्रास्ते देवास्तत्र पदे स्थिताः। तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ।। ४६.
पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते। श्राद्धादिकारिणां नॄणां तीर्थे पितृविमुक्तये। प्रेता धानुष्करूपेण करग्रहणकारकाः ।। ४६.
पादाङ्कितां मुण्डपृष्ठां महादेवनिवासिनीम्। तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ।। ४६.
गयाशिरसि पुण्ये च सर्वपापैर्विवर्जिते। ग्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ।। ४६.
कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्। च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ।। ४६.