प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च। रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ।। ४६.
जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया। तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ।। ४६.
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः। रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ। तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ।। ४६.
राम राम महाबाहो देवानामभयङ्कर। त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ।। ४६.
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सपिण्डकम् । प्रेतत्वात्तस्य पितरो विमुक्ताः पितृतां ययुः ।। ४६.
आपस्त्वमसि देवेश ज्योतिषां पतिरेव च। पाप नाशय मे देव मनोवाक्कायकर्मजम् ।। ४६.
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत्। तञ्च शम्भुं नमस्कृत्य कुर्याद्यमबलिं ततः ।। ४६.
रामे वनं गते शैलमागत्य भरतः स्थितः । पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ।। ४६.
रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः। भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्। मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात्। मतङ्गस्य पदे श्राद्धी सर्वांस्तारयते पितॄन् ।। ४६.
रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च। रामेश्वरं प्रणम्याथ न देही जायते पुनः ।। ४६.
शिलाया जघनं भूयः समाक्रान्तं नगेन तु। धर्मराजेन संप्रोक्तो न गच्छेति नगः स्मृतः ।। ४६.
यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ। ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्ति हेतवे ।। ४६.
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां बलिं प्रयच्छामि स्यातामेतावहिंसकौ ।। ४६.
ऐन्द्रवारुण वायन्ययाम्यनैऋत्यसंस्थिताः। वायसाः प्रतिगृह्णन्तु भूयो पिण्डं मया स्थितम् ।। ४६.
यमोऽसि यमदूतोऽसि वायसोऽसि महाबल। सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ।। ४६.
रामे वनं गते शैलमागत्य भरतेन हि। पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ।। ४६.
स्नात्वा नत्वा च रामेशं रामसीता समन्वितम्। तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत्। पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ।। ४६.
रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः। भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्। मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.
वह्निर्द्वौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः। भरताश्रममासाद्य तान्नमेत्पूजयेन्नरः ।। ४६.
पापेभ्यश्चोपपापेभ्यो मुच्यते पितृभिः सह। यत्र कुत्रापि देवर्षे भरतस्याश्रमे नरः । स्नातः श्राद्धादिकं कुर्यात्तत्कल्पेऽपि न हीयते ।। ४६.
गयायां चाक्षयं श्राद्धं जपहोमतपांसि च। सर्वमानन्त्यमाहुर्वै यद्दत्तं भरताश्रमे ।। ४६.
चतुर्युगस्वरूपेण चतस्रो रविमूर्त्तयः । दृष्टाः स्पृष्टाः पूजितास्ताः पितॄणां मुक्तिदायकाः ।। ४६.
मुक्तिर्वांमन इत्येव तारकाख्यो विधिः परः। संसारार्णवतप्तानां नावावेतौ सुरेश्वरौ। तारकं ब्रह्म विश्वेषां मृतानां जीवतामिदम् ।। ४६.
त्रिविक्रमञ्च ब्रह्माणं यः पश्येत्पुरुषोत्तमम्। पितृभिः सह धर्मात्मा स याति परमां गतिम् ।। ४६.
शिलाया वामपादेऽपि तथाभ्युद्यन्तको गिरिः । स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ।। ४६.
नैमिषारण्यपार्श्वे तु ईचे ब्रह्मा सुरैः सह। मुख्यसंज्ञं हि तत्तीर्थं देवास्तत्र पदे स्थिताः ।। ४६.
त्रिषु तेषु पदेष्वेव तीर्थेषु मुनिसत्तम। यत्किञ्चिदशुभं कर्म तत्प्रणश्यति नारद ।। ४६.
तन्नैमिषवनं पुण्यं सेवितं पुण्यपूरुषैः। तत्र व्यासः शुकः पैलः कण्वो वेधाः शिवो हरिः ।। ४६.
तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः। वामहस्ते शिलायास्तु तथा चोद्यन्तको गिरिः ।। ४६.