यथा ब्रह्ना यथा विष्णुर्यथा देवो महेश्वरः। ब्रह्माण्डे च यथा मेरु स्तथेयं देवरूपिणी ।। ४६.
गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः । अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ।। ४६.
पवित्रयोर्द्वयोर्योगे हयमेध मजोऽकरोत्। भागार्थमागतान्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ।। ४६.
शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये। तथेत्युक्त्वा शिलायान्ते देवा विष्ण्वादयः स्थिताः ।। ४६.
शिलारूपेण मूर्त्त्या च पदरूपेण देवताः। मूर्त्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ।। ४६.
दैत्यस्य मुण्ड पृष्ठे तु यस्मात्सा संस्थिता शिला। तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ।। ४६.
आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः। भासितो भास्करेणेति प्रभासः परिकल्पितः ।। ४६.
प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः। अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्त्तितः ।। ४६.
शिलाङ्गुष्ठैकतेशो यः सा च प्रेतशिला स्मृता। पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ।। ४६.
महानदीप्रबासाद्योः सङ्गमे स्नानकृन्नरः। रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ।। ४६.
प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च। रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ।। ४६.
जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया। तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ।। ४६.
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः। रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ। तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ।। ४६.
राम राम महाबाहो देवानामभयङ्कर। त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ।। ४६.
मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सपिण्डकम् । प्रेतत्वात्तस्य पितरो विमुक्ताः पितृतां ययुः ।। ४६.
आपस्त्वमसि देवेश ज्योतिषां पतिरेव च। पाप नाशय मे देव मनोवाक्कायकर्मजम् ।। ४६.
नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत्। तञ्च शम्भुं नमस्कृत्य कुर्याद्यमबलिं ततः ।। ४६.
रामे वनं गते शैलमागत्य भरतः स्थितः । पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ।। ४६.
रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः। भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्। मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनात्। मतङ्गस्य पदे श्राद्धी सर्वांस्तारयते पितॄन् ।। ४६.
रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च। रामेश्वरं प्रणम्याथ न देही जायते पुनः ।। ४६.
शिलाया जघनं भूयः समाक्रान्तं नगेन तु। धर्मराजेन संप्रोक्तो न गच्छेति नगः स्मृतः ।। ४६.
यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ। ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्ति हेतवे ।। ४६.
द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां बलिं प्रयच्छामि स्यातामेतावहिंसकौ ।। ४६.
ऐन्द्रवारुण वायन्ययाम्यनैऋत्यसंस्थिताः। वायसाः प्रतिगृह्णन्तु भूयो पिण्डं मया स्थितम् ।। ४६.
यमोऽसि यमदूतोऽसि वायसोऽसि महाबल। सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ।। ४६.
रामे वनं गते शैलमागत्य भरतेन हि। पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ।। ४६.
स्नात्वा नत्वा च रामेशं रामसीता समन्वितम्। तत्र श्राद्धं सपिण्डञ्च कृत्वा विष्णुपुरं व्रजेत्। पितृभिः सह धर्मात्मा कुलानाञ्च शतैःसह ।। ४६.
रामं सीतां लक्ष्मणञ्च मुनीन्स्थापितवान्प्रभुः। भरतस्याश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम्। मतङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ।। ४६.
वह्निर्द्वौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः। भरताश्रममासाद्य तान्नमेत्पूजयेन्नरः ।। ४६.