धर्म्मव्रतावचः श्रुत्वा प्रोचुरेतां सुराः पुनः । धर्म्मव्रते धर्म्मपुत्रि शापोऽयं परमर्षिणा ।। ४५.
दत्तस्ते न निराकर्त्तुं शक्यो देवद्विजातिभिः। तस्मादन्यं वरं ब्रूहि यतो धर्म्मस्य संस्थितिः ।। ४५.
भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते। देवानां वचनं श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ।। ४५.
भर्त्तुः शापान्मोचयितुं न शक्ताश्च यदामराः। मह्यं वरं प्रयच्छध्वमेवंविधमनुत्तमम् ।। ४५.
शिलाहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा। नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ।। ४५.
ऋष्यादिभ्यो मुनुभ्यश्च मुख्यदेवेभ्य एव च। त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि। तानि तिष्ठन्तु मद्देहे तीर्थरूपेण सर्व्वदा ।। ४५.
तीर्थान्यपि च सर्व्वाणि नक्षत्रप्रमुखास्तथा। तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ।। ४५.
ब्रह्मा विष्णुश्च रुद्रश्च लक्षयित्वा पदं मयि। पञ्चाग्नयः कुमाराद्या बहुरुपेण संस्थिताः ।। ४५.
मूर्त्तामूर्त्तस्वरूपेण पदरूपेण देवताः। शिलायां क्रोशमात्रेण मूर्त्तिरूपाः स्थिता भुवि ।। ४५.
तां दृष्ट्वा सर्व्वलोकश्च महापातकनाशिनीम्। पूतो धर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ।। ४५.
शिलास्थितेषु तीर्थषु स्नात्वा कृत्वाथ तर्पणम्। श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ।। ४५.
गदाधरो दृश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम्। स्थास्यन्ति च मरिष्यन्ति यान्तु ब्रह्मपुरीं नराः। वाराणसी प्रयागश्च पुरुषोत्तमसंज्ञकम् ।। ४५.
गङ्गासागरसंज्ञञ्च नित्यं तिष्ठतु फल्गुनि। गदाधराधिष्ठितं तत्सर्व्वतीर्थोत्तमोत्तमम्। मुक्तिर्भवेत् पितॄणां च मृतानां श्राद्धतः सदा ।। ४५.
जरायुजाण्डजा वापि स्वेदजा वापि चोद्भिदः। त्यक्त्वा देहं शिलायान्ते यान्तु विष्णुस्वरूपताम् ।। ४५.
यथार्च्चिते हरौ सर्व्वे यज्ञाः पूर्णा भवन्ति हि। तथा श्राद्धं तर्पणञ्च स्नानं चाक्षयमस्त्विह ।। ४५.
मम देहे सुरेशानां ये जपन्ति श्रुतादिकम्। अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ।। ४५.
पितॄणां कुलसाहस्रमात्मना सहितं नरः। श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्ध्रुवम् ।। ४५.
यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः। समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः। नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ।। ४५.
शरीरेण समायान्तु क्वचिन्नो यान्तु देवताः। एको विष्णुस्त्रिधामूर्त्तिर्यावत्सङ्कीर्त्यते बुधैः ।। ४५.
तावच्छिलायां सर्व्वाणि तीर्थानि सह दैवतैः। सदा तिष्ठन्तु मुनयो गन्धर्व्वाणां गणाश्च ये ।। ४५.
सर्व्वदेवस्वरूपा च नामेयं देवरूपिणी। यावत्तिष्ठति ब्रह्माण्डं तावत्तिष्ठतु वै शिला। मम देहेऽश्मरूपे च ये जपन्ति तपन्ति च ।। ४५.
जुहोत्यग्नौ च तेषां वै तदक्षय्योपतिष्ठताम् । अक्षयन्तु भवेच्छ्राद्धं जपहोमतपांसि च। शिलापर्व्वतरूपेण मयि तिष्ठतु सर्व्वदा ।। ४५.
पतिव्रतावचः श्रुत्वा देवाः प्रोचुः पतिव्रताम्। त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ।। ४५.
गयासुरस्य शिरसि भविष्यसि यदा स्थिरा। तदा पादादिरूपेण स्थास्यामस्त्वयि सुस्थिराः। वरं शिलायै दत्त्वैवं तत्रैवान्तर्द्दधुः सुराः ।। ४५.
वक्ष्ये शिलाया माहात्म्यं श्रृणु नारद मुक्तिदम्। यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुङ्गवाः ।। ४६.
शिला स्थिता पृथिव्यां सा देवरूपातिपावनी। विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ।। ४६.
तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः। शून्ये लोकत्रये जाते शून्या यमपुरी ह्यभूत् ।। ४६.
यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम्। अधिकारं गृहाणाथ यमदण्डं पितामह ।। ४६.
यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम्। ब्रह्मोक्तो धर्मराजस्तु गृहे तां समधारयत् ।। ४६.
यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम्। एवंविधा गुरुतरा शिला जगति विश्रुता ।। ४६.