एतासामन्तरं वक्तुं नैव शक्यं द्विजोत्तमाः। गुणवृद्धिनिबन्धत्वाद् द्विधानुग्रहबन्धतः ।। ५.
प्रवृत्तिञ्च निवृत्तिञ्च गुणवृद्धिमिह द्विजाः। यथाशक्ति प्रवक्ष्यामि तनूनां तन्निबोधत ।। ५.
एका तु कुरुते तासां राजसी सर्वतः प्रजाः। एका चैवार्णवस्था तु सानुगृह्णाति सात्त्विकी। एका सा क्षिपते काले तामसी ग्रसते प्रजाः ।। ५.
रजसा तु समुद्रिक्तो ब्रह्मा सम्भवते यदा। पुरुषाख्या तदा तस्य सात्त्विकी विनिवर्त्तते ।। ५.
यदा भवति कालात्मा उद्रेकात्तमसस्तु सः। ब्रह्माख्या सा तदा त्वस्य राजसी विनिवर्त्तते ।। ५.
सत्त्वोद्रेकात्तु पुरुषो यदा भवति स प्रभुः। कालाख्या सा तदा तस्य पुनर्नभवतीति वै ।। ५.
क्रमात्तस्य निवर्त्तन्ते रूपं नाम च कर्म च। त्रैलोक्ये वर्त्तमानस्य सर्वानुग्रहनिग्रहैः ।। ५.
यदा भवति ब्रह्मा च तदा चान्तरमुच्यते। यदा च पुरुषो ब्रह्मा न चैव पुरुषस्तु सः ।। ५.
मणिर्विभजते वर्णान् विचित्रान् स्फटिके यथा। वैमल्यादाश्रयवशात्तद्वर्णः स्यात्तदञ्जनः ।। ५.
तदा गुणवशात्तस्य स्वयम्भोरनुरञ्जनम्। एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्घनम् ।। ५.
एको भूत्वा यथा मेघः पृथक्त्वेनावतिष्ठते। रूपतो वर्णतश्चैव तथा गुणवशात्तु सः ।। ५.
भवत्येको द्विधा चैव त्रिधा मूर्तिविनाशनात्। एको ब्रह्मान्तकृच्चैव पुरुषश्चेति ते त्रयः ।। ५.
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः। ब्राह्मी च पौरुषी चैव अन्तकारी च ते त्रयः ।। ५.
तत्र या राजसी तस्य तनुः सा वै प्रजाकरी। या तामसी तु कालाख्या प्रजाक्षयकरी तु सा। सात्त्विकी पौरुषी या तु सानुग्रहकरी स्मृता ।। ५.
राजस्या ब्रह्मणोंऽशेन मरीचिः कश्यपोऽभवत्। तामसी चान्तकृद्या तु तदंशेनाभवद्भवः ।। ५.
सात्त्विकी पौरुषी या सा तस्याः शोचिष्णुरुच्यते। त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवस्तु स्वयम्भुवः ।। ५.
नानाप्रयोजनार्थां हि कालोऽवस्थां करोति यः। ब्रह्मत्वेन प्रजाः सृष्ठ्वा विष्णुत्वेनानुगृह्य च। वैष्णव्यानुगृहीता स्ता रौद्यानुग्रसते पुनः ।। ५.
एकः स्वयम्भुवः कालस्त्रिभिस्त्रीन् वै करोति सः। सृजते चानुगृह्णाति प्रजाः संहरते तथा ।। ५.
इत्येताः कथिता स्तिस्रस्तनवस्तु स्वयम्भुवः। प्रजापत्या च रौद्री च वैष्णवी चैव ताः स्मृताः ।। ५.
एका तनुः स्मृता वेदे धर्मशास्त्रे पुरातने। साङ्ख्ययोगपरे वीरैः पृथक्त्वैकत्वदर्शिभिः। अभिजातप्रभावज्ञैऋषिभिस्तत्त्वदर्शिभिः ।। ५.
एकत्वे च पृथक्त्वे च तासु भिन्नाः प्रजास्त्विह । इदं परमिदं नेति ब्रुवतो भिन्नदर्शनाः ।। ५.
ब्रह्माणं कारणं केचित् केचित् प्राहुः प्रजापतिम्। केचिच्छिवं परत्वेन प्राहुर्विष्णुं तथाऽपरे। अविज्ञानेन संसक्ताः सक्ता रत्यादिचेतसा ।। ५.
तत्त्वं कालञ्च देशञ्च कार्याण्यावेक्ष्य तत्त्वतः। कारणञ्च स्मृता ह्येता नानार्थेष्विह देवताः ।। ५.
एकं निन्दति यस्तेषां सर्वानेन स निन्दति। एकं प्रशसमानस्तु सर्वानेव प्रशंसति। एकं यो वेत्ति पुरुषं तमाहुर्ब्रह्मवादिनम् ।। ५.
अद्वेषस्तु सदा कार्यो देवतासु विजानता। न शक्यमीश्वरं ज्ञातुमैश्वर्येण व्यवस्थितम् ।। ५.
एकात्मा स त्रिधा भूत्वा संमोहयति यः प्रजाः। एतेषाञ्च त्रयाणान्तु विचरन्त्यन्तरं जनाः ।। ५.
जिज्ञासन्तः परीक्षन्तः सक्ता रूपाविचेतसः। इदं परमिदं नेति वदन्ति भिन्नदर्शिनः ।। ५.
यातुधानान् विशन्त्येताः पिशाचांश्चैव तान्नरान् । एकत्वेन पृथक्त्वेन स्वयम्भूर्व्यवतिष्ठते ।। ५.
गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन् प्रजाः। तेष्वेकं यजते यस्तु स तदा यजते त्रयम् ।। ५.
तस्माद्देवास्त्रयो ह्येते नैरन्तर्ये व्यवस्थिताः। तस्मात् पृथक्त्वमेकत्वसङ्ख्या सङ्ख्यागतागतम्। एकत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ।। ५.