भर्त्रा धर्म्मव्रता शप्ता मरीचिं प्राह सा रुषा। शयाने त्वयि संप्राप्ते ब्रह्मा त्वज्जनको गुरुः ।। ४५.
त्वयोत्थाय हि कर्त्तव्यं स्वगुरोः पूजनं सदा। मया तु धर्म्मचारिण्या तव कार्य्ये कृते मुने ।। ४५.
अदोषाहं यतः शप्ता तस्माच्छापं ददामि ते। त्वञ्च शापं महादेवाद्भर्त्तः प्राप्स्यस्यसंशयम् ।। ४५.
व्याकुलं तं पतिं दृष्ट्वा व्याकुलागात्प्रजापतिम्। नत्वा शयानं ब्रह्माणमग्निं प्रज्वाल्य चेन्धनैः ।। ४५.
गार्हपत्ये स्थिता चक्रे तपः परमदुष्करम्। तथा शप्तो मरीचिश्च तपस्तेपे सुदारुणम् ।। ४५.
पतिव्रतायास्तपसा मरीचेस्तपसा यथा। इन्द्रादयश्च सन्तप्ता गतास्ते शरणं हरिम् ।। ४५.
ऊचुः क्षीराम्बूदौ सुप्तं सन्तप्तास्तपसा हरे। पतिव्रतायाश्च मुनेस्त्रैलोक्यं रक्ष केशव ।। ४५.
इन्द्रादीनां वचः श्रुत्वा विष्णुर्धर्म्मव्रतां ययौ। एतस्मिन्नेव काले तु प्रबुद्धो भगवानजः। ऊचुर्धर्म्मर्वतां देवा अग्निस्थां तां सकेशवाः ।। ४५.
अग्निमध्ये तपः कर्त्तुं कस्य शक्तिः पतिव्रते। त्वया कृतं तत्परमं सर्व्वलोकभयङ्करम् ।। ४५.
वरं वरय धर्म्मज्ञे अस्मत्तो यदभीप्सितम्। विष्ण्वादीनां वचः श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ।। ४५.३७ भर्तृशापमशक्ताहं निवर्त्तयितुमोजसा। दत्तो मरीचिना शापो मह्यं स ह्यपगच्छतु ।। ४५.
धर्म्मव्रतावचः श्रुत्वा प्रोचुरेतां सुराः पुनः । धर्म्मव्रते धर्म्मपुत्रि शापोऽयं परमर्षिणा ।। ४५.
दत्तस्ते न निराकर्त्तुं शक्यो देवद्विजातिभिः। तस्मादन्यं वरं ब्रूहि यतो धर्म्मस्य संस्थितिः ।। ४५.
भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते। देवानां वचनं श्रुत्वा देवान्धर्म्मव्रताब्रवीत् ।। ४५.
भर्त्तुः शापान्मोचयितुं न शक्ताश्च यदामराः। मह्यं वरं प्रयच्छध्वमेवंविधमनुत्तमम् ।। ४५.
शिलाहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा। नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ।। ४५.
ऋष्यादिभ्यो मुनुभ्यश्च मुख्यदेवेभ्य एव च। त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि। तानि तिष्ठन्तु मद्देहे तीर्थरूपेण सर्व्वदा ।। ४५.
तीर्थान्यपि च सर्व्वाणि नक्षत्रप्रमुखास्तथा। तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ।। ४५.
ब्रह्मा विष्णुश्च रुद्रश्च लक्षयित्वा पदं मयि। पञ्चाग्नयः कुमाराद्या बहुरुपेण संस्थिताः ।। ४५.
मूर्त्तामूर्त्तस्वरूपेण पदरूपेण देवताः। शिलायां क्रोशमात्रेण मूर्त्तिरूपाः स्थिता भुवि ।। ४५.
तां दृष्ट्वा सर्व्वलोकश्च महापातकनाशिनीम्। पूतो धर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ।। ४५.
शिलास्थितेषु तीर्थषु स्नात्वा कृत्वाथ तर्पणम्। श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ।। ४५.
गदाधरो दृश्यतीर्थं सर्व्वतीर्थोत्तमोत्तमम्। स्थास्यन्ति च मरिष्यन्ति यान्तु ब्रह्मपुरीं नराः। वाराणसी प्रयागश्च पुरुषोत्तमसंज्ञकम् ।। ४५.
गङ्गासागरसंज्ञञ्च नित्यं तिष्ठतु फल्गुनि। गदाधराधिष्ठितं तत्सर्व्वतीर्थोत्तमोत्तमम्। मुक्तिर्भवेत् पितॄणां च मृतानां श्राद्धतः सदा ।। ४५.
जरायुजाण्डजा वापि स्वेदजा वापि चोद्भिदः। त्यक्त्वा देहं शिलायान्ते यान्तु विष्णुस्वरूपताम् ।। ४५.
यथार्च्चिते हरौ सर्व्वे यज्ञाः पूर्णा भवन्ति हि। तथा श्राद्धं तर्पणञ्च स्नानं चाक्षयमस्त्विह ।। ४५.
मम देहे सुरेशानां ये जपन्ति श्रुतादिकम्। अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ।। ४५.
पितॄणां कुलसाहस्रमात्मना सहितं नरः। श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्ध्रुवम् ।। ४५.
यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः। समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः। नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ।। ४५.
शरीरेण समायान्तु क्वचिन्नो यान्तु देवताः। एको विष्णुस्त्रिधामूर्त्तिर्यावत्सङ्कीर्त्यते बुधैः ।। ४५.
तावच्छिलायां सर्व्वाणि तीर्थानि सह दैवतैः। सदा तिष्ठन्तु मुनयो गन्धर्व्वाणां गणाश्च ये ।। ४५.