लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः। युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ।। ४४.
आक्रान्तं दैत्यजठरं धर्म्मेण विरजाद्रिणा। नाभिकूपसमीपे तु देवी या विरजा स्थिता। तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् ।। ४४.
महेन्द्रगिरिणा तस्य कृतौ पादौ सुनिश्चलौ। iतत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ।। ४४.
कथं शिला समुत्पन्ना ययाक्रान्तो गयासुरः । किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च ।। ४५.
.सनत्कुमार उवाच।। आसीद्धर्म्मो महातेजाः सर्व्वविज्ञानपारगः। विश्वरुपा च तत्पत्नी भर्त्तृव्रतपरायणा ।। ४५.
तस्यां धर्म्मव्रतायास्तु कन्या धर्म्मव्रता सती। सर्व्व लक्षणसम्पन्ना लक्ष्मीरिव गुणाधिका ।। ४५.
तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्र्त्रये। धर्म्मो धर्म्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ।। ४५.
नानु रूपं वरं लेभे धर्म्मोऽथ वरसिद्धये। तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ।। ४५.
कन्या सा च तपस्तेपे सर्व्वेषां दुष्करञ्च यत्। वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ।। ४५.
ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः । पर्य्यटन्पृथिवीं सर्व्वां कन्यारत्नं ददर्श सः ।। ४५.
रूपयौवनसम्पन्नां परमे तपसि स्थिताम्। पप्रच्छाथ मरीचिस्तां का त्वं कस्यापि तद्वद ।। ४५.
रूपेणानेन मां भीरु विमोहयसि सुव्रते । ब्रह्मात्मजोऽहं विख्यातो मरीचिर्व्वेदपारगः ।। ४५.
मरीचेर्व्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम्। अहं धर्म्मव्रता नाम धर्म्मपुत्री तपोऽन्विता ।। ४५.
पतिव्रतार्थं विप्रेन्द्र चरामि परमं तपः। धर्म्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व्व्कम् ।। ४५.
पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते। पतिव्रतेच्छया पृथ्वीं विचरामि ह्यहर्निशम् ।। ४५.
त्वञ्चेत्पतिव्रता जाता भजे त्वां भज मां वरम्। लोके न त्वादृशी कन्या मम तुल्यो न ते वरः ।। ४५.
धर्म्मव्रते धर्म्मपत्नी तस्मात्त्वं भव मेऽधुना। धर्म्मव्रता मुनिं प्राह धर्म्मं याचय सुव्रत ।। ४५.
तच्छ्रुत्वा धर्म्ममगमन्मुनिं धर्मो ददर्श ह। तेजःपुञ्जं वरं नत्वा आसनार्घ्यादिनार्च्चयत् ।। ४५.
किमर्तमागतः पृष्टो मरीचिर्धर्म्ममब्रवीत्। कन्यार्थं भ्रमता पृथ्वी दृष्टा ते कन्यका वरा । मह्यं कन्याञ्च तां देहि श्रेयस्तव भविष्यति ।। ४५.
अर्घ्यादिना समभ्यर्च्य धर्म्मं प्रोचे तथेति तम्। धर्म्मव्रतां समानीय दत्तवांस्तां मरीचये ।। ४५.
वरं च दत्तवांस्तस्मै तद्वाक्यं यत्तथा कृतम्। अग्निहोत्रेण सहितां स्वाश्रमं तां द्विजोऽनयत् ।। ४५.
रेमे मुनिस्तया सार्द्धं यथा विष्णुः श्रिया सह। पार्व्वत्या च यथा शम्भुः सरस्वत्या यथा ह्यजः ।। ४५.
जज्ञे पुत्रशतं तस्यां मरीचेर्विष्णुनोपमम्। मरीचिः फलपुष्पार्थं वनं गत्वा समागतः ।। ४५.
श्रान्तः कदाचित्तां पत्नीमुवाचेति पतिव्रताम्। भुक्त्वा तु शयनस्थस्य पादसंवाहनं कुरु ।। ४५.
धर्म्मव्रता तथेत्युक्त्वा शयनस्थस्य सा मुनेः। पादसंवाहनं चक्रे घृते नाभ्यज्य तत्परा ।। ४५.
निद्रायमाणेऽथ मुनौ ब्रह्मा तं देशमागतः। इत्येष दृष्ट्वा ब्रह्माणं मनसार्च्चयितुं प्रभुम् ।। ४५.
पादसंवाहनं कुर्य्यां किं पूज्योऽयं जगद्गुरुः। इत्याकुला समुत्तस्थौ मत्वा सा तं गुरोर्गुरुम् ।। ४५.
अर्घ्यपाद्यादिकं दत्त्वा ब्रह्माणं समपूजयत्। सत्कृतायान्तु शय्यायां विश्राममकरोदजः ।। ४५.
एतस्मिन्नन्तरे भर्त्ता समुत्तस्थौ च तल्पतः। धर्म्मव्रतामपश्यन्स विप्रः क्रुद्धः शशाप ताम् ।। ४५.
पादसंवाहनं त्यक्त्वायस्मादाज्ञां विहाय मे । गतान्यत्र ततः पापाच्छापदग्धा शिला भव ।। ४५.