आनीय मूर्त्तिं ब्रह्मापि शिलायां समधारयत्। तथापि चलितं वीक्ष्य पुनर्देवमथाह्वयत् ।। ४४.
आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत्। जनार्द्दनाभिधानेन पुण्डरीकेति नामतः। शिलायांनिश्चलार्थं हि स्वयमादिगदाधरः ।। ४४.
निश्चलार्थं पञ्चधासीच्छिलायां प्रपितापहः। पितामहोऽथ फल्ग्वीशः केदारः कनकेश्वरः ।। ४४.
ब्रह्मा स्थितः स्वयं तत्र गजरूपी विनायकः। गयादित्यश्चोत्तरार्को दक्षिणार्कस्त्रिधा रविः ।। ४४.
लक्ष्मीः सीताभिधानेन गौरी च मङ्गलाह्वया। गायत्री चैव सावित्री त्रिसन्ध्या च सरस्वती ।। ४४.
इन्द्रो बृहस्पतिः पूषा वसवोऽष्टौ महाबलाः। विश्वेदेवाश्चाश्विनेयौ मारुतो विश्वनायकः। सयक्षोरगगन्धर्व्वास्तस्थुर्देवाः स्वशाक्तिभिः ।। ४४.
आद्यया गदया चासौ यस्माद्दैत्यः स्थिरीकृतः। स्थित इत्येव हरिणा तस्मादादिगदाधरः ।। ४४.
ऊचे गयासुरो देवान्किमर्थं वञ्चितो ह्यहम्। यज्ञार्थं ब्रह्मणे दत्तं शरीरममलं मया। विष्णोर्वचनमात्रेण किं न स्यां निश्चलो ह्यहम् ।। ४४.
यत्सुरैः पीडितोऽत्यर्थं गदया हरिणा तथा। पीडितो यद्यहं देवाः प्रसन्नाः सन्तु सर्वदा ।। ४४.
गदाधरादयस्तुष्टाः प्रोचुः सार्द्धं गयासुरम्। वरं ब्रूहि प्रसन्नाः स्मो देवानूचे गयासुरः ।। ४४.
यावत्पृथ्वी पर्वताश्च यावच्चन्द्रार्कतारकाः। तावच्छिलायां तिष्ठन्तु ब्रह्मविष्णुमहेश्वराः। अन्ये च सकला देवा मन्नाम्ना क्षेत्रमस्तु वै ।। ४४.
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः । तन्मध्ये सर्वतीर्थानि प्रयच्छन्तु हितं नृणाम् ।। ४४.
स्नानादितर्पणं कृत्वा पिण्डदानात्फलाधिकम्। महात्मा वै सहस्रञ्च कुलानां चोद्धरेन्नरः ।। ४४.
व्यक्ताव्यक्तस्वरूपेण यूयं तिष्ठत सर्वदा। गदाधरः स्वयं लोकाद्भूयात्सर्वाघनाशनात् ।। ४४.
श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते। ब्रह्महत्यादिकं पापं विनश्यतु च सेविनाम् ।। ४४.
नैमिषं पुष्करं गङ्गा प्रयागश्चाविमुक्तिकम्। एतान्यन्यानि तीर्थानि दिवि भुव्यन्तरिक्षतः। समायान्तु सदा नॄणां प्रयच्छन्तु हितं सुराः ।। ४४.
किं बहूक्त्या सुरगणा युष्मास्वेकापि देवता। चेन्न तिष्ठेदहं चापि समयः प्रतिपाल्यताम् ।। ४४.
गयासुरवचः श्रुत्वा प्रोचुर्विष्ण्वादयःसुराः। त्वया यत्प्रार्थितं सर्व्वं तद्भविष्यत्यसंशयम् ।। ४४.
अस्मत्पादानर्च्चयित्वा यास्यन्ति परमां गतिम्। देवैर्दत्तवरो दैत्यो हर्षितो निश्चलोऽभवत् ।। ४४.
स्थितेषु चैव देवेषु ब्राह्मणेभ्यो ददावजः। ग्रामांश्च पञ्चपञ्चाशत्पञ्चक्रोशीं गयां तथा। गृहान्कृत्वा ददौ दिव्यान्सर्व्वोपस्करसंयुतान् ।। ४४.
कामधेनुं कल्पवृक्षं पारिजातादिकांस्तरून्। महानदीं क्षीरवहां घृतकुल्यास्तथैव च ।। ४४.
मधुश्रवां मधुकुल्यां दध्याद्याढ्यसरांसि च। सुवर्णदीर्घिकां चैव बहूनन्नादिपर्व्वतान् ।। ४४.
भक्ष्यभोज्यफलादींश्च सर्व्वं ब्रह्मा सृजन्ददौ। न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ।। ४४.
दत्त्वा ययौ ब्रह्मलोकं नत्वा ह्यादिगदाधरम् । धर्म्मारण्ये तत्र धर्म्मं याजयित्वा ययाचिरे ।। ४४.
धर्म्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम्। ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्छशाप ह ।। ४४.
कृतवन्तो यतो लोभं मद्दत्तेष्वखिलेष्वपि। तस्मादृणाधिका यूयं भविष्यन्ति सदा द्विजः ।। ४४.
युष्माकं स्याद्वारिवहा नदी पाषाणपर्व्वताः। नद्यादयो वारिवहा मृन्मयाश्च यथा गृहाः ।। ४४.
कामधेनुः कल्पवृक्षो मल्लोकमुपतिष्ठताम्। एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ।। ४४.
त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम्। जीवनार्थं प्रसादं नो भगवान्कर्त्तुमर्हसि ।। ४४.
तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः। तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ।। ४४.