गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम्। विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ।। ४४.
गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सहः। संपूज्योत्थाय विधिवत्प्रण्तः श्रद्धयान्वितः ।। ४४.
अद्य मे सफलं जन्म अद्य मे सफलं तपः। यदागतोऽतिथिर्ब्रह्मा सर्व्वं प्राप्तं मयाद्य वै ।। ४४.
योगिन्योगाङ्गवित्सर्व्वलोकस्वामिन्पितर्गुरो। यदर्थमा गतो ब्रह्मन्स्तत्कार्य्यं करवाण्यहम् ।। ४४.
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया। यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ।। ४४.
त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः। अतः पवित्रं देहं त्वं यज्ञार्थं देहिमेऽसुर ।। ४४.
धन्योऽहं देव देवेश यद्देहं प्रार्थ्यते त्वया। पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ।। ४४.
त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः। सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ।। ४४.
इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः। नैऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ।। ४४.
शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे। ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ।। ४४.
अग्निशर्माणम्मृतं शौनकं याञ्जलिं मृदुम्। कुमुथिं वेद कौण्डिल्यं हारीतं काश्यपं कृपम् ।। ४४.
गर्गं कौशिकवासिष्ठौ मुनिं भार्गवमव्ययम्। वृद्धं पाराशरं कण्वं माण्डव्यं श्रुतिकेवलम् ।। ४४.
श्वेतं सुतालं दमनं सुहोत्रं कङ्कमेव च। लौकाक्षिञ्च महाबाहुं जैगीषव्यं तथैव च ।। ४४.
दधिपञ्चमुखं विप्रमृषभं कर्कमेव च। कात्यायनं गोभिलञ्च मुनिमुग्रमगाव्रतम् ।। ४४.
सुपालकं गौतमञ्च तथा वेदशिरोव्रतम्। जटामालिनमव्यग्रं चाटुहासञ्च दारुणम् ।। ४४.
आत्रेयं चाप्यङ्गिरसमौपमन्युं महा व्रतम्। गोकर्णञ्च गुहावासं शिखण्डिनमुमाव्रतम् ।। ४४.
एतानन्यांश्च विप्रेन्द्रान्वेधा लोकपितामहः । परिकल्प्याकरोद्यागं गयासुरशरीरके ।। ४४.
अग्निशर्मापि पञ्चाग्नीन्मुखादेतानथासृजत्। दक्षिणाग्निं गार्हपत्याहवनीयौ तपोऽव्ययः ।। ४४.
सत्यावसथ्यौ देवर्षे येषु यज्ञाः प्रतिष्ठिताः। यज्ञस्य च प्रतिष्ठार्थं विप्रेभ्यो दक्षिणां ददौ ।। ४४.
हुत्वा पूर्णाहुतिं ब्रह्ना स्नात्वा चावभृथेन तु। यज्ञयूपं सुरैः सार्द्धं समानीय व्यरोपयत् ।। ४४.
ब्रह्मणः सहसा श्रेष्ठे सरस्येवाश्रितं शुभम्। चलितश्चकितो ब्रह्मा धर्म्मराजमभाषत ।। ४४.
जाता गृहे तव शिला समानीयाविचारयन्। दैत्यस्य शीघ्रं शिरसि तां धारय ममाज्ञया ।। ४४.
निश्चलार्थं यमः श्रुत्वा धारयन्मस्तके शिलाम्। शिलायां धारितायान्तु सशिलश्चासुरोऽचलत् ।। ४४.
देवानूचेऽथ रुद्रादीञ्छिलायां निश्चलाः किल। तिष्ठन्तु देवाः सकलास्तथेत्युक्त्वा च ते स्थिताः ।। ४४.
देवाः पादैर्लक्षयित्वा तथापि चलितोऽसुरः। ब्रह्माथ व्याकुलो विष्णुं गतः क्षीराब्धिशायिनम्। तुष्टाव प्रणतो भूत्वा नत्वा चादृत्य तं प्रभुम् ।। ४४.
.ब्रह्मोवाच।। ब्रह्माण्डस्य पते नाथ नमामि जगतां पतिम्। कतिं कीर्त्तिमतां नॄणां बुक्तिमुक्तिप्रदायकम् ।। ४४.
विष्वक्सेनोऽब्रवीद्विष्णुं देव त्वां स्तौति पद्मजः। हरिराहानय त्वं तं विष्णूक्तः स तमानयत्। अजमूचे हरिः कस्मादागतोऽसि वदस्व तत् ।। ४४.
देवदेव कृते योगे प्रचचाल गयासुरः। शिलायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ।। ४४.
रुद्रादिषु च देवेषु संस्थितेष्वसुरोऽचलत्। इदानीं निश्चलार्थं हि प्रसादं कुरु माधव ।। ४४.
ब्रह्मणो वचनं श्रुत्वा ह्याकृष्य स्वशरीरतः । मूर्त्तिं ददौ निश्चलार्थं ब्रह्मणे भगवान्हरिः ।। ४४.