गयासुरोऽसुराणाञ्च महाबलपराक्रमः। योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः ।। ४४.
स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः। कोलाहलगिरिवरे तपस्तेपे सुदारुणम् ।। ४४.
बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत्। तत्तपस्तापिता देवाः संक्षोभं परमं गताः ।। ४४.
ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम्। गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ।। ४४.
व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम्। कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ।। ४४.
ब्रह्माद्यानब्रवीच्छम्भुर्व्रजामः शरणं हरिम्। क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति। ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ।। ४४.
देवा ऊचुः ।। ॐ नमो विष्णवो भर्त्रे सर्व्वेषां प्रभविष्णवे। रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ।। ४४.
धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे । वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ।। ४४.
सनत्कुमार उवाच।। एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ। किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ।। ४४.
गयासुरभयाद्देव रक्षास्मानब्रवीद्धरिम्। ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ।। ४४.
केशवे गरुडारूढो वरं दातुं गयासुरे। सर्व्वे स्वं स्वं समास्थाय ययुर्वाहनमुत्तमम् ।। ४४.
ऊचुस्तं वासुदेवाद्याः किमर्थं तप्यते त्वया। सन्तुष्टाः स्वागताः सर्वे वरं ब्रूहि गयासुर ।। ४४.
गयासुर उवाच।। यदितुष्टाः स्थ मे देवा ब्रह्मविष्णुमहेश्वराः। सर्व्वदेवद्विजातिभ्यो यज्ञतीर्थशिलोच्चयात् ।। ४४.
देवेभ्योऽतिपवित्रोऽहमृषिभ्योऽपि शिवाव्ययात्। मन्त्रेभ्यो देवदेवेभ्यो योगिभ्यश्चापि सर्व्वशः ।। ४४.
न्यासिभ्यश्चापि कर्म्मिभ्यो धर्म्मिभ्यश्च तथा पुनः। ज्ञातिभ्योऽतिपवित्रेभ्यः पवित्रः स्यां सदा सुराः ।। ४४.
पवित्रमस्तु तं देवा दैत्यमुक्त्वा ययुर्दिवम्। दैत्यं दृष्ट्वा च स्पृष्ट्वा च सर्व्वे हरिपुरं ययुः ।। ४४.
शून्यं लोकत्रयं जातं शून्या यमपुरी ह्यभूत्। यम इन्द्रादिभिः सार्द्धं ब्रह्मलोकं ततोऽगमत् ।। ४४.
ब्रह्माणमूचिरे देवा गयासुरविलोपिताः। त्वया दत्तोऽधिकारो वै गृहाण त्वं पितामह ।। ४४.
ब्रह्माब्रवीत्ततो देवान्व्रजामो विष्णुमव्ययम्। ब्रह्मादयोऽब्रुवन्विष्णुं त्वया दत्तवरेऽसुरे ।। ४४.
तद्दर्शनाद्ययुः स्वर्गं शून्यं लोक त्रयं ह्यभूत्। देवैरुक्तो वासुदेवो ब्रह्माणं स वचोऽब्रवीत् ।। ४४.
गत्वासुरं प्रार्थयस्व यज्ञार्थं देहि देहकम्। विष्णूक्तः ससुरो ब्रह्मा गत्वाऽपश्यन्महासुरम् ।। ४४.
गयासुरोऽब्रवीद्दृष्ट्वा ब्रह्माणं त्रिदशैः सहः। संपूज्योत्थाय विधिवत्प्रण्तः श्रद्धयान्वितः ।। ४४.
अद्य मे सफलं जन्म अद्य मे सफलं तपः। यदागतोऽतिथिर्ब्रह्मा सर्व्वं प्राप्तं मयाद्य वै ।। ४४.
योगिन्योगाङ्गवित्सर्व्वलोकस्वामिन्पितर्गुरो। यदर्थमा गतो ब्रह्मन्स्तत्कार्य्यं करवाण्यहम् ।। ४४.
पृथिव्यां यानि तीर्थानि दृष्टानि भ्रमता मया। यज्ञार्थं न तु ते तानि पवित्राणि शरीरतः ।। ४४.
त्वया देहे पवित्रत्वं प्राप्तं विष्णुप्रसादतः। अतः पवित्रं देहं त्वं यज्ञार्थं देहिमेऽसुर ।। ४४.
धन्योऽहं देव देवेश यद्देहं प्रार्थ्यते त्वया। पितृवंशः कृतार्थो मे देहे यागं करोषि चेत् ।। ४४.
त्वयैवोत्पादितो देहः पवित्रस्तु त्वया कृतः। सर्व्वेषामुपकाराय यागोऽवश्यं भवत्विति ।। ४४.
इत्युक्त्वा सोऽपतद्भूमौ श्वेतकल्पे गयासुरः। नैऋतीं दिशमाश्रित्य तदा कोलाहले गिरौ ।। ४४.
शिरः कृत्वोत्तरे दैत्यः पादौ कृत्वा तु दक्षिणे। ब्रह्मा सम्भृतसम्भारो मानसानृत्विजोऽसृजत् ।। ४४.