पायसेनापि चरुणा सक्तुना पिष्टकेन वा। तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ।। ४३.
तिलकल्केन खण्डेन गुडेन सघृतेन वा। केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ।। ४३.
पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत। इज्यते वार्त्तवं भोज्यं हविष्यान्नं मुनीरितम् ।। ४३.
एकतः सर्व्ववस्तूनि रसवन्ति मधूनि हि। स्मृत्वा गदाधराङघ्र्यब्जं फल्गुतीर्थाम्बु चैकतः ।। ४३.
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्। दक्षिणा चान्न सङ्कल्पस्तीर्थश्राद्धेष्वयं विधिः ।। ४३.
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः। सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ।। ४३.
अन्यत्रावाहिताः काले पितरो यान्त्यमुं प्रति। तीर्थे सदा वसन्त्येते तस्मादावाहनं न हि ।। ४३.
तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः फलकाङ्क्षिभिः। कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्या क्रियाऽनिशम् ।। ४३.
ब्रह्मचार्य्यकभोजी च भूशायी सत्यवाक्छुचिः। सर्व्वभूतहिते रक्तः स तीर्थफलमश्नुते ।। ४३.
तीर्थान्यनुसरन्धीरः पाषण्डं पूर्व्वतस्त्यजेत्। पाषण्ढः स च विज्ञेयो यो भवेत्कामकारतः ।। ४३.
तीर्थेषु ये नरा धीराः कर्म्म कुर्व्वन्ति तद्घताः। यथा ब्रह्मविदो वेद्यं वस्तु चानन्यचेतसः। प्रविशन्ति परेशाख्यं ब्रह्म ब्रह्मपरायणाः ।। ४३.
यास्ते वैतरणी नाम नदी त्रैलोक्यविश्रुता। साऽवतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै। स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ।। ४३.
तथाऽक्षयवटं गत्वा विप्रान्सन्तोषयिष्यति। ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत्। तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ।। ४३.
गयायां न हि तत्स्थानं यत्र तीर्थं न विद्यते। सान्निध्यं सर्व्वतीर्थानां गयातीर्थं ततो वरम् ।। ४३.
मीने मेषे स्थिते सूर्य्ये कन्यायां कार्मुके घटे। दुर्ल्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ।। ४३.
मकरे वर्त्तमाने च ग्रहणे चन्द्रसूर्य्ययोः । दुर्ल्लभं त्रिषु लोकेषु गयाश्राद्धं सुदुर्ल्लभम् ।। ४३.
गयायां पिण्डदानेन यत्फलं लभते नरः। न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ।। ४३.
नारद उवाच।। गयासुरः कथं जातः किंप्रभावः किमात्मकः । तपस्तप्तं कथं तेन कथं देहपवित्रता ।। ४४.
सनत्कुमार उवाच।। विष्णोर्नाभ्यम्बुजाज्जातो ब्रह्मा लोकपितामहः। प्रजाः ससर्ज संप्रोक्तः पूर्व्वं देवेन विष्णुना ।। ४४.
आसुरेणैव भावेन ह्यसुरानसृजत्पुरा। सौमनस्येन भावेन देवान्सुमनसोऽसृजत् ।। ४४.
गयासुरोऽसुराणाञ्च महाबलपराक्रमः। योजनानां सपादञ्च शतं तस्योच्छ्रयः स्मृतः ।। ४४.
स्थूलः षष्टिर्योजनानां श्रेष्ठोऽसौ वैष्णवः स्मृतः। कोलाहलगिरिवरे तपस्तेपे सुदारुणम् ।। ४४.
बहुवर्षसहस्राणि निरुच्छ्वासं स्थिरोऽभवत्। तत्तपस्तापिता देवाः संक्षोभं परमं गताः ।। ४४.
ब्रह्मलोकं गता देवाः प्रोचुस्तेऽथ पितामहम्। गयासुराद्रक्ष देव ब्रह्मा देवांस्ततोऽब्रवीत् ।। ४४.
व्रजामः शङ्करं देवा ब्रह्माद्याश्च गताः शिवम्। कैलासे चाब्रुवन्नत्वा रक्ष देव महासुरात् ।। ४४.
ब्रह्माद्यानब्रवीच्छम्भुर्व्रजामः शरणं हरिम्। क्षीराब्धौ देवदेवेशः स नः श्रेयो विधास्यति। ब्रह्मा महेश्वरो देवा विष्णुं नत्वा प्रतुष्टुवुः ।। ४४.
देवा ऊचुः ।। ॐ नमो विष्णवो भर्त्रे सर्व्वेषां प्रभविष्णवे। रोचिष्णवे जिष्णवे च राक्षसादिग्रसिष्णवे ।। ४४.
धरिष्णवेऽखिलस्यास्य योगिनां पारयिष्णवे । वर्द्धिष्णवे ह्यनन्ताय नमो भ्राज्ष्णिवे नमः ।। ४४.
सनत्कुमार उवाच।। एवं स्तुतो वासुदेवः सुराणां दर्शनं ददौ। किमर्थमागता देवा विष्णुनोक्तास्तमब्रुवन् ।। ४४.
गयासुरभयाद्देव रक्षास्मानब्रवीद्धरिम्। ब्रह्माद्या यान्तु तं दैत्यमागमिष्याम्यहं ततः ।। ४४.