गयां गत्वान्नदाता यः पितरस्तेन पुत्रिणः । पक्षत्रयनिवासी च पुनात्यासप्तमं कुलम्। नो चेत्पञ्चदशाहं वा सप्तरात्रिं त्रिरात्रिकम् ।। ४३.
महाकल्पकृतं पापं गयां प्राप्य विनश्यति। पिण्डं दद्याच्च पित्रादेरात्मनोऽपि तिलैर्विना ।। ४३.
ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः। पापंतत्सङ्गजं सर्व्वं गयाश्राद्धाद्विनश्यति ।। ४३.
आत्मजोऽप्यन्यजो वापि गयाभूमौ यदा तदा। यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ।। ४३.
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा। वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्व्विधा ।। ४३.
ब्रह्मज्ञानेन किं कार्य्यं गोगृहे मरणेन किम्। वासेन किं कुरुक्षेत्रे यदि पुत्रो गयां व्रजेत् ।। ४३.
गयायां सर्व्वकालेषु पिण्डं दद्याद्विचक्षणः। अधिमासे जन्मदिने चास्तेऽपि गुरुशुक्रयोः ।। ४३.
न त्यक्तव्यं गयाश्राद्धं सिंहस्थेऽपि बृहस्पतौ। तथा दैवप्रमादेन प्रहतेषु व्रणेषु च। पुनः कर्म्माधिकारी च श्राद्धकृद्ब्रह्मलोकभाक् ।। ४३.
सकृद्गयाभिगमनं सकृत्पिण्डस्य पातनम्। दुर्लभं किं पुनर्न्नित्यमस्मिन्नेव व्यवस्थितिः ।। ४३.
प्रमादान्म्रियते क्षेत्रे ब्रह्मादेर्मुक्तिदायके। ब्रह्मज्ञानाद्यथा मुक्तिर्लभ्यते नात्र संशयः ।। ४३.
कीटकादिमृतानाञ्च पितॄणां तारणाय च। तस्मात्सर्व्वप्रयत्नेन कर्त्तव्यं सुविचक्षणैः ।। ४३.
ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिनाऽर्च्चयेत्। तैस्तुष्टैस्तोषिताः सर्व्वाः पितृभिः सह देवताः ।। ४३.
मुण्डनं चोपवासश्च सर्व्वतीर्थेष्वयं विधिः। वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।। ४३.
दण्डंप्रदर्शयेद्भिक्षुर्गयां गत्वा न पिण्डदः। दण्डं न्यस्ता विष्णुपदे पितृभिः सह मुच्यते ।। ४३.
न दण्डी किल्बिषं धत्ते पुण्यं वा परमार्थतः। अतः सर्व्वां क्रियां त्यक्त्वा विष्णुं ध्यायति भावुकः ।। ४३.
संन्यसेत्सर्व्वकर्म्माणि वेदमेकं न संन्यसेत्। मुण्डं कुर्य्याच्च पूर्व्वेऽस्मिन्पश्चिमे दक्षिणोत्तरे ।। ४३.
सार्द्धं क्रोशद्वयं मानं गयेति ब्रह्मणेरितम्। पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।। ४३.
तन्मध्ये सर्व्वतीर्थानि त्रैलोक्ये यानि सन्ति वै। श्राद्धकृद्यो गयाक्षेत्रे पितॄणामनृणो हि सः ।। ४३.
शिरसि श्राद्धकृद्यस्तु कुलानां शतमुद्धरेत्। गृहाच्चलितमात्रेण गयायां गमनं प्रति। स्वर्गा रोहणसोपानं पितॄणाञ्च पदे पदे ।। ४३.
पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम्। तत्फलञ्च भवेन्नूनं समग्रं नात्र संशयः ।। ४३.
पायसेनापि चरुणा सक्तुना पिष्टकेन वा। तण्डुलैः फलमूलाद्यैर्गयायां पिण्डपातनम् ।। ४३.
तिलकल्केन खण्डेन गुडेन सघृतेन वा। केवलेनैव दध्ना वा ऊर्जेन मधुनाऽथ वा ।। ४३.
पिण्याकं सघृतं खण्डं पितृभ्योऽक्षयमित्युत। इज्यते वार्त्तवं भोज्यं हविष्यान्नं मुनीरितम् ।। ४३.
एकतः सर्व्ववस्तूनि रसवन्ति मधूनि हि। स्मृत्वा गदाधराङघ्र्यब्जं फल्गुतीर्थाम्बु चैकतः ।। ४३.
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम्। दक्षिणा चान्न सङ्कल्पस्तीर्थश्राद्धेष्वयं विधिः ।। ४३.
नावाहनं न दिग्बन्धो न दोषो दृष्टिसम्भवः। सकारुण्येन कर्त्तव्यं तीर्थश्राद्धं विचक्षणैः ।। ४३.
अन्यत्रावाहिताः काले पितरो यान्त्यमुं प्रति। तीर्थे सदा वसन्त्येते तस्मादावाहनं न हि ।। ४३.
तीर्थश्राद्धं प्रयच्छद्भिः पुरुषैः फलकाङ्क्षिभिः। कामं क्रोधं तथा लोभं त्यक्त्वा कार्य्या क्रियाऽनिशम् ।। ४३.
ब्रह्मचार्य्यकभोजी च भूशायी सत्यवाक्छुचिः। सर्व्वभूतहिते रक्तः स तीर्थफलमश्नुते ।। ४३.
तीर्थान्यनुसरन्धीरः पाषण्डं पूर्व्वतस्त्यजेत्। पाषण्ढः स च विज्ञेयो यो भवेत्कामकारतः ।। ४३.