अलौकिकंलौकिकञ्च यत् किञ्चिदपि विद्यते। न तद्वोऽविदितं वेद्यं भूत भव्यं भवच्च यत् ।। ४२.
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा। यदृच्छाकरसङ्कोचविधानायेह रागिणाम् ।। ४२.
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा निधीतरौ। न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ।। ४२.
अतो लोकहितैर्नूनं परमार्थनिरूपणे। स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ।। ४२.
अधिकारिविभेदेन कर्मज्ञानोपदेशतः। त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ।। ४२.
अतोऽहं प्रष्टुमिच्छमि भवन्तश्चेत्कृपालवः । कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ।। ४२.
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः। चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ।। ४२.
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत्। सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ।। ४२.
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम्। निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ।। ४२.
विकारेषु विनश्यत्सु निर्विकारं न नश्यति। यथान्धतमसा व्याप्तलोकस्य रविरोजसा ।। ४२.
लोहस्येव मणिस्तद्वदरणिश्चानले यथा। यदाभासेन सा सत्तां प्रतिपद्य विजृम्भते ।। ४२.
जीवेश्वरादिरूपेण विश्वाकारेण चाप्यहो। तस्यामपि प्रलीनायां कूटस्थञ्च यदेकलम् ।। ४२.
भवद्भिरेवं निर्णीतं तत्तथैव न संशयः। तथापि मम जिज्ञासा वर्त्तते केवलं हृदि ।। ४२.
अतोऽपि परमं किञ्चिद्वर्त्तते किल वा न वा। तद्वदन्तु महाभागा भवन्तस्तत्त्वदर्शनाः ।। ४२.
यच्छ्रवः फलमेवेह जनुषो मे कृतार्थता। एवं ब्रुवन्तमनघं व्यासं सत्यवतीसुतम्। साधु साध्विति सङ्कीर्त्य प्रत्यूचु र्निगमा वचः ।। ४२.
वेदा ऊचुः ।। साधु साधु महाप्राज्ञा विष्णुरात्मा शरीरिणाम्। अजोऽपि जन्म सम्पद्य लोकानुग्रहमीहसे ।। ४२.
अन्यथा ते न घटते संसारकर्म्मबन्दनम्। अस्पृष्टो मायया देव्या कदाचिज्ज्ञानगूहया ।। ४२.
बिभर्षि स्वेच्छया रूपं स्वेच्छयैव निगूहसे। अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः ।। ४२.
पुराणेष्वितिहासेषु सूत्रेष्वपि च नैकधा। अक्षरं ब्रह्म परमं सर्वकारणकारणम् ।। ४२.
तस्यात्मनोऽप्यात्म भावतया पुष्पस्य गन्धवत्। रसवद्वा स्थितं रूपमवेहि परमं हि तत् ।। ४२.
अनुभूतं तदस्माभिर्जाते प्राकृतिके लये। अक्षरात्परतस्तस्माद्यत्परं केवलो रसः । न च तत्र वयं शक्ताः शब्दातीते तदात्मकाः ।। ४२.
अत ऊर्द्ध्वं प्रवक्ष्यामि गयामाहात्म्यमुत्तमम्। यच्छ्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्रसंशयः ।। ४३.
सनकाद्यैर्म्महाभागैर्देवर्षिः स च नारदः। सनत्कुमारं पप्रच्छ प्रणम्य विधिपूर्व्वकम् ।। ४३.
नारद उवाच।। सनत्कुमार मे ब्रूहि तीर्थं तीर्थोत्तमोत्तमम्। तारकं सर्वभूतानां पठतां श्रृण्वतां तथा ।। ४३.
सनत्कुमार उवाच।। वक्ष्ये तीर्थवरं पुण्यं श्राद्धादौ सर्वतारकम्। गयातीर्थं सर्वदेशे तीर्थेभ्योऽप्यधिकं श्रृणु ।। ४३.
गयासुरस्तपस्तेपे ब्रह्मणा क्रतवेऽर्थितः। प्राप्तस्य तस्य शिरसि शिलां धर्मो ह्यधारयत् ।। ४३.
तत्र ब्रह्माऽकरोद्यागं स्थितश्चापि गदाधरः। फल्गुतीर्थादिरूपेण निश्चलार्थमहर्निशम्। गयासुरस्य विप्रेन्द्रब्रह्माद्यैर्दैवतैः सह ।। ४३.
कृतयज्ञो ददौ ब्रह्मा ब्राह्मणेभ्यो गृहादिकम्। स्वेतकल्पे तु वाराहे गयायागमकारयत् ।। ४३.
गयानाम्ना गया ख्याता क्षेत्रं ब्रह्नमभिकांक्षितम्। कांक्षन्ति पितरः पुत्रान्नरकाद्भयभीरवः ।। ४३.
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति। गयाप्राप्तं सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्। पद्भ्यामपि जलं स्पृष्ट्वा सोऽस्मभ्यं किं न दास्यति ।। ४३.