स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः। कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ।। ४२.
स्वरैः षोडशभिः क्लृप्त वदनाः प्रणवान्तराः। कचवर्गोद्भवैर्वर्णैः पञ्चावयवपाणयः ।। ४२.
पवर्गदक्षचरणा वामपादास्तवर्गतः। आतरन्त्यन्तवर्णाश्च येषां कुक्षिद्वयात्मकौ ।। ४२.
नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः। अग्निदक्षांशरुचिरा धराग्रीवा भृतासकाः ।। ४२.
अन्तस्थसन्धिसंस्थाना वैखरीवाग्विजृम्भिताः। अपश्यन्मथुरामेषां हृदयाम्भोजकल्पिताम् ।। ४२.
हरेर्भगवतः साक्षादाविर्भावस्थली हि सा। काशीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ।। ४२.
लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले । कण्ठस्थां द्वारकामेषां प्रयागं प्राणगं तथा ।। ४२.
सव्यापसव्ययोस्तेषां गड्गाऽपि यमुना नदी । मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथानने ।। ४२.
हनुग्रीवामध्यगतं प्रभासक्षेत्रमुत्तमम्। बदर्य्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ।। ४२.
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे। पीठं पूर्णगिरिंनाम ललाटे समदृश्यत ।। ४२.
कण्ठे च मथुरापीठं काञ्चीपीठं कटिस्थितम्। जालन्धरं तथा पीठं स्तनदेशेष्वदृश्यत ।। ४२.
भृगुपीठं कर्णदेशे ह्ययोध्यां नासिकापुटे। ब्रह्मरन्ध्रे स्थितं ब्राह्यं शैवं सीमन्तसीमनि ।। ४२.
शाक्तं जिह्वाग्र धिषणं वैष्णवं हृदयाम्बुजे। सौरं चक्षुःप्रदेशस्थं बौद्धञ्छायासु सङ्गतम् ।। ४२.
सौत्रामणिं कण्ठदेशे पशुबन्धमथोरसि। वाजपेयं कटितटे ह्यग्निहोत्रं तथानने ।। ४२.
अश्वमेधं कटितटे नरमेधमथोदरे। राजसूयं शिरोदेशे आवसथ्यं तथाऽधरे ।। ४२.
ऊर्द्ध्वोष्ठे दक्षिणाग्निञ्च गार्हपत्यं मुखान्तरे। हव्यं श्रुतौ मन्त्रभेदांस्तथा रोमस्ववस्थितान्। भृत्यैरिव महाराजं पुराणैर्न्यायमिश्रितैः ।। ४२.
संहिताभिश्च तन्त्रैश्च पृथक्पृथगुपासितान्। कर्म ज्ञानोपासनाभिर्जनानुग्रहकारकान् ।। ४२.
दृष्ट्वा सुविस्मितमना मुनिः कृष्णो बभूव तान् । ब्रह्मतेजोमयान्दिव्यांस्तपतोऽर्कानिवच्युतान्। ज्लतोऽग्नी निवोदर्कान्कोटीन्दुसमदर्शनान् ।। ४२.
ववन्दे सहसोत्थाय दण्डवत्पतितो मुनिः। कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहमितीरयन् ।। ४२.
अद्य मे सफलं जन्म अद्य मे सफलं मनः। अद्य मे सफलञ्चायुर्यद्भवन्तोऽक्षिगोचराः ।। ४२.
अलौकिकंलौकिकञ्च यत् किञ्चिदपि विद्यते। न तद्वोऽविदितं वेद्यं भूत भव्यं भवच्च यत् ।। ४२.
न प्रवृत्तिफला यूयं दर्शयन्तोऽपि तान्सदा। यदृच्छाकरसङ्कोचविधानायेह रागिणाम् ।। ४२.
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा निधीतरौ। न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ।। ४२.
अतो लोकहितैर्नूनं परमार्थनिरूपणे। स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ।। ४२.
अधिकारिविभेदेन कर्मज्ञानोपदेशतः। त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ।। ४२.
अतोऽहं प्रष्टुमिच्छमि भवन्तश्चेत्कृपालवः । कर्मणां फलमादिष्टं सर्गः कामैकचेतसाम् ।। ४२.
ईशार्पितधियां पुंसां कृतस्यापि च कर्मणः। चित्तशुद्धिस्ततो ज्ञानं मोक्षश्च तदनन्तरम् ।। ४२.
मोक्षो ब्रह्मैक्यमित्येवं सच्चिदानन्दमेव यत्। सर्वं समाप्यते तस्मिञ्ज्ञाते यद्धि कृताकृतम् ।। ४२.
यन्निःसङ्गं चिदाकाशं ज्ञानरूपमसंवृतम्। निरीहमचलं शुद्धमगुणं व्यापकं स्मृतम् ।। ४२.
विकारेषु विनश्यत्सु निर्विकारं न नश्यति। यथान्धतमसा व्याप्तलोकस्य रविरोजसा ।। ४२.