यमुनापुलिने तुङ्गे तमालवनकानने। कदम्बचम्पकाशोकपारिजातमनोहरे ।। ४२.
शिखिपारावतशुकपिककोलाहलाकुले। निरोधार्थं गवामेव धावमानमितस्ततः ।। ४२.
राधाविलासरसिकं कृष्णाख्यं पुरुषं परम्। श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ।। ४२.
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते। गोलोकसंज्ञिके कृष्णो दीव्यतीति श्रुतं मया ।। ४२.
नातः परतरं किञ्चिन्निगमागमयोरपि। तथापि निगमो वक्ति ह्यक्षरात् परतः परः ।। ४२.
गोलोकवासी भगवानक्षरात्पर उच्यते। तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ।। ४२.
उद्दिष्टो वेद वचनैर्विशेषो ज्ञायते कथम्। श्रुतेर्वार्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ।। ४२.
श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः। विचारयामास चिरं न प्रपेदे यथातथम् ।। ४२.
सूत उवाच।। विचारयन्नपि मुनिर्नाप वेदार्थनिश्चयम्। वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ।। ४२.
तथापि महतीमार्त्तिं सतां हृदयतापिनीम्। पुनर्विचारयामास कं व्रजामि करोमि किम् ।। ४२.
पश्यामि न जगत्यस्मिन्सर्वज्ञं सर्वदर्शनम्। अज्ञात्वाऽन्यतमं लोके सन्देहविनिवर्त्तकम् ।। ४२.
मेरोः कुहरिणीं गत्वा चचार परमं तपः। यत्र कार्त्तस्वरक्फूर्जज्ज्योत्स्नाजालैर्निरन्तरम् ।। ४२.
सदा प्रबाधते विष्वक्तमःस्तोमं दृशन्तुदम्। चकास्ते यत्र परमं कान्तारमतिसुन्दरम् ।। ४२.
नानाद्रुमलत ---त्पक्षिनिनादितम्। क्षुत्पिपासाभयक्रोधतापग्लानिविवर्जितम् ।। ४२.
जलाशयैर्बहुविधैः पद्मिनीखण्डमण्डितैः । जातरूपशिलानद्धतटसञ्चारपाक्ष ।। ४२.
युक्तमम्भोज पवनैः सेव्यमानं समन्ततः। शिवैरध्यासितम्भावैर्हिंस्रैः सत्त्वैः समुज्झितम् ।। ४२.
निर्जनं दिव्यलतिकाप्रियखण्डवराजितम्। शूकैः पारावतै र्हृद्यैरुन्मदन्मत्तकोकिलम् ।। ४२.
उत्पतत्पद्मरजसां पटलामोददिङ्मुखम्। तत्रापि काञ्चिनी दिव्या गुहा परमशोभना ।। ४२.
तां प्रविश्य जिता हारो जितचित्तो जितासनः। सस्मार वेदांश्चतुरस्तदेकाग्रमना मुनिः ।। ४२.
त्रयी जगाम शरदां शतस्य स्मरतोऽस्य हि । प्रादुरासंस्ततो वेदाश्चत्वारश्चारुदर्शनाः ।। ४२.
स्फुरत्पद्मपलाशाक्षा जटामुकुटधारिणः। कुशमुष्टिकराम्भोजा मृगत्वङ्मण्डितांसकाः ।। ४२.
स्वरैः षोडशभिः क्लृप्त वदनाः प्रणवान्तराः। कचवर्गोद्भवैर्वर्णैः पञ्चावयवपाणयः ।। ४२.
पवर्गदक्षचरणा वामपादास्तवर्गतः। आतरन्त्यन्तवर्णाश्च येषां कुक्षिद्वयात्मकौ ।। ४२.
नाभिनिद्राः कान्तपृष्ठा मोदरा यरलवोत्कचाः। अग्निदक्षांशरुचिरा धराग्रीवा भृतासकाः ।। ४२.
अन्तस्थसन्धिसंस्थाना वैखरीवाग्विजृम्भिताः। अपश्यन्मथुरामेषां हृदयाम्भोजकल्पिताम् ।। ४२.
हरेर्भगवतः साक्षादाविर्भावस्थली हि सा। काशीमपश्यद्भ्रूमध्ये मायामाधारसंस्थिताम् ।। ४२.
लिङ्गदेशे ततः काञ्चीमवन्तीं नाभिमण्डले । कण्ठस्थां द्वारकामेषां प्रयागं प्राणगं तथा ।। ४२.
सव्यापसव्ययोस्तेषां गड्गाऽपि यमुना नदी । मध्ये सरस्वती साक्षाद्गयाक्षेत्रं तथानने ।। ४२.
हनुग्रीवामध्यगतं प्रभासक्षेत्रमुत्तमम्। बदर्य्याश्रममेतेषां ब्रह्मरन्ध्रे ददर्श ह ।। ४२.
पौण्ड्रवर्धननेपालपीठं नयनयोर्युगे। पीठं पूर्णगिरिंनाम ललाटे समदृश्यत ।। ४२.