अध्यास्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते। विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ।। ४२.
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्। तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ।। ४२.
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः। यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ।। ४२.
यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ। भवेतां या परा शक्तिर्यदाधारतया स्थिता ।। ४२.
यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्। यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ।। ४२.
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्। विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ।। ४२.
जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् । सुषुप्तौ प्राज्ञसंज्ञं तत्सर्वावस्थासु संस्मृतम् ।। ४२.
यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च। त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ।। ४२.
बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्। यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ।। ४२.
रज्जावहिर्मरौ वारि नीलिमा गगने यथा। असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ।। ४२.
घटावच्छिन्न एवायं महाकाशो विभिद्यते। कार्योपाधिपरिच्छिन्नं तद्वद्यज्जीवसंज्ञिकम् ।। ४२.
मायया चित्रकारिण्या विचित्रगुणशीलया । ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ।। ४२.
धावतोऽन्यानतिक्रान्तं वदतो वागगोचरम् । वेदवेदान्तसिद्धान्तैर्विनिर्णीतं तदक्षरम् ।। ४२.
अक्षरान्न परं किञ्चित्सा काष्ठा सा परा गतिः । इत्येवं श्रूयते वेदे बहुधापि विचारिते ।। ४२.
अक्षरस्यात्मनश्चापि स्वात्मरूपतया स्थितम्। परमानन्दसन्दोहरूपमानन्द विग्रहम् ।। ४२.
लीलाविलासरसिकं बल्लवीयूथमध्यगम्। शिखिपिच्छकिरीटेन बास्वद्रत्नचितेन च ।। ४२.
उल्लसद्विद्युदाटोपकुण्डलाभ्यां विराजितम्। कर्णोपान्तचरन्नेत्रखञ्जरीटमनोहरम् ।। ४२.
कुञ्जकुञ्जप्रियावृन्दविलासरतिलम्पटम्। पीताम्बरधरं दिव्यं चन्दनालेपमण्डितम् ।। ४२.
अधरामृत संसिक्तवेणुनादेन वल्लवीः। मोहयन्तञ्चिदानन्दमनङ्गमदभञ्जनम् ।। ४२.
कोटिकामकलापूर्णं कोटिचन्द्रांशुनिर्मलम्। त्रिरेखकम्ठविलसद्रत्नगुञ्जामृगा कुलम् ।। ४२.
यमुनापुलिने तुङ्गे तमालवनकानने। कदम्बचम्पकाशोकपारिजातमनोहरे ।। ४२.
शिखिपारावतशुकपिककोलाहलाकुले। निरोधार्थं गवामेव धावमानमितस्ततः ।। ४२.
राधाविलासरसिकं कृष्णाख्यं पुरुषं परम्। श्रुतवानस्मि वेदेभ्यो यतस्तद्गोचरोऽभवत् ।। ४२.
एवं ब्रह्मणि चिन्मात्रे निर्गुणे भेदवर्जिते। गोलोकसंज्ञिके कृष्णो दीव्यतीति श्रुतं मया ।। ४२.
नातः परतरं किञ्चिन्निगमागमयोरपि। तथापि निगमो वक्ति ह्यक्षरात् परतः परः ।। ४२.
गोलोकवासी भगवानक्षरात्पर उच्यते। तस्मादपि परः कोऽसौ गीयते श्रुतिभिः सदा ।। ४२.
उद्दिष्टो वेद वचनैर्विशेषो ज्ञायते कथम्। श्रुतेर्वार्थोऽन्यथा बोध्यः परतस्त्वक्षरादिति ।। ४२.
श्रुत्यर्थे संशयापन्नो व्यासः सत्यवतीसुतः। विचारयामास चिरं न प्रपेदे यथातथम् ।। ४२.
सूत उवाच।। विचारयन्नपि मुनिर्नाप वेदार्थनिश्चयम्। वेदो नारायणः साक्षाद्यत्र मुह्यन्ति सूरयः ।। ४२.
तथापि महतीमार्त्तिं सतां हृदयतापिनीम्। पुनर्विचारयामास कं व्रजामि करोमि किम् ।। ४२.