चतुर्विंशति साहस्रं सौकरं परमाद्भुतम्। एकाशीतिसहस्राणि स्कान्दमुक्तं सुविस्तृतम् ।। ४२.
एवमष्टादशोक्तानि पुराणानि बृहन्ति च। पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ।। ४२.
रागिणाञ्च विरागाणां यतीनां ब्रह्मचारिणाम् गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ।। ४२.
ब्राह्मणक्षत्रियविशां ये च सङ्करजातयः। गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ।। ४२.
अनेकविधदानानि यमाश्च नियमैः सह। योगधर्मा बहुविधाः सांख्या भागवतास्तथा ।। ४२.
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजाः। उपासनविधिश्चोक्तः कर्मसंशुद्धिचेतसाम् ।। ४२.
ब्राह्मं शैवं वैष्णवं च सौरं शाक्तं तथार्हतम्। षड्दर्शनानि चोक्तानि स्वभावनियतानि च ।। ४२.
एतदन्यच्च विविधं पुराणेषु निरुपितम्। अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ।। ४२.
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् । अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ।। ४२.
सूत उवाच।। श्रृणु शौनक वक्ष्यामि प्रश्रमेनं सुदुर्लभम्। अतिगोप्यतरं दिव्यमनाख्येयं प्रचक्षते ।। ४२.
पराशरसुतो व्यासः कृत्वा पौराणिकीं कथाम्। सर्ववेदार्थघटितां चिन्तयामास चेतसि ।। ४२.
वर्णाश्रमवतां धर्मो मया सम्यगुदाहृतः। मुक्तिमार्गा बहुविधा उक्ता वेदाविरोधतः ।। ४२.
जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये। निरूपितं परं ब्रह्म श्रुतियुक्तविचारतः ।। ४२.
अक्षरं परमं ब्रह्म परमात्मा परं पदम्। यदर्थं ब्रह्मचर्यादिवानप्रस्थयतिव्रतम् ।। ४२.
आचरन्ति महाप्राज्ञा धारणाञ्च पृथग्विधाम्। आसनं प्राणरोधश्च प्रत्याहारश्च धारणा ।। ४२.
ध्यानं समाधिरेतानि यमैश्च नियमैः सह। अष्टाङ्गानि यदर्थञ्च चरन्ति मुनिपुङ्गवाः ।। ४२.
यदर्थं कर्म कुर्वन्ति वेदाज्ञामात्रतत्पराः। परार्पणधिया सम्यग् निष्कामाः कलिलोज्झिताः ।। ४२.
यज्ज्ञप्तये निराकर्त्तुं पापाचरणमात्मनः। गङ्गादितीर्थचर्याणि निषेवन्ते शुचिव्रताः ।। ४२.
तद्ब्रह्म परमं शुद्धमनाद्यन्तमनामयम्। नित्यं सर्वगतं स्थाणु कूटस्थं कूटविर्जितम् ।। ४२.
सर्वेन्द्रियचराभासं प्राकृतेन्द्रियवर्जितम्। दिक्कालाद्यनवच्छिन्नं नित्यं चिन्मात्रमव्ययम् ।। ४२.
अध्यास्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते। विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् ।। ४२.
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्। तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ।। ४२.
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः। यस्माद्भवन्ति ब्रह्माण्ड कोटयो न भवन्ति च ।। ४२.
यदुन्मेषनिमेषाभ्यां जगतां प्रलयोदयौ। भवेतां या परा शक्तिर्यदाधारतया स्थिता ।। ४२.
यस्मिन्निदं यतश्चेदं येनेदं यदिदं स्मृतम्। यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ।। ४२.
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्। विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ।। ४२.
जीवे जाग्रति विश्वाख्यं स्वप्ने यत्तैजसं स्मृतम् । सुषुप्तौ प्राज्ञसंज्ञं तत्सर्वावस्थासु संस्मृतम् ।। ४२.
यच्चक्षुषां चक्षुरथ श्रोत्राणां श्रोत्रमस्ति च। त्वक् त्वचां रसनं तस्य प्राणं प्राणस्य यद्विदुः ।। ४२.
बुद्धिर्ज्ञानेन च प्राणाः क्रियाशक्त्या निरन्तरम्। यन्नेशिरि समभ्येतुं ज्ञातुं च परमार्थतः ।। ४२.
रज्जावहिर्मरौ वारि नीलिमा गगने यथा। असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ।। ४२.