कृत ञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ। गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ।। ४१.
निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च। स ददौ सोमशूष्माय स ददौ तृणबिन्दवे ।। ४१.
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये। शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ।। ४१.
पराशराज्जातुकर्णस्तस्माद्द्वैपायनः प्रभुः। द्वैपायनात्पुनश्चापि मया प्राप्तं द्विजोत्तमाः ।। ४१.
शांशपायन उवाच ।। मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये। इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ।। ४१.
नमस्कार्य्यश्च गुरवः प्रयत्नेन मनीषिभिः। धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ।। ४१.
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा। नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ।। ४१.
नाश्रद्दधानाविदुषे नापुत्राय कथञ्चन। नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ।। ४१.
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमन्तर्गतञ्च । वह्निं वक्रं चन्द्र सूर्य्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् ।। ४१.
वायो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् । सर्वाणि चाङ्गानि तथैव तानि विद्यास्सर्वा यस्य पुच्छं वदन्ति ।। ४१.
तं देवदेवं जननं जनानां सर्व्वेषु लोकेषु प्रतिष्ठितञ्च। वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ।। ४१.
सूत सूत महाभाग त्वया भगवता सता। व्यासप्रसादाधिगतशास्त्रसम्बोधनेन च ।। ४२.
अष्टादशपुराणानि सेतिहासानि चानघ। उपक्रमोपसंहार विधिनोक्तानि कृत्स्नशः ।। ४२.
चतुर्दशसहस्रं च मात्स्यं प्रोक्तमतिस्फुटम्। तत्संख्यकं भविष्यञ्च प्रोक्तं पञ्चशताधिकम् ।। ४२.
मार्कण्डेयं महारम्यं प्रोक्तं नवसहस्रकम्। कथितं ब्रह्मवैवर्त्तमष्टादशसहस्रकम् ।। ४२.
शतोत्तरञ्च ब्रह्माण्डं सूर्यसंख्यासहस्रकम् । अथ भागवतं दिव्यमष्टादशसहस्रकम् ।। ४२.
सहस्राणि दशैवोक्तं पुराणं ब्रह्मनामकम्। अयुतश्लोकघटितं पुराणं वामनाभिधम् ।। ४२.
तथैवायुत संख्यातं षट्शताधिकमादिकम्। त्रयोविंशतिसाहस्रमनिलं तद्गतं शुभम् ।। ४२.
त्रयोविंशतिसाहस्रं नारदीयमुदाहृतम् । एकोनविंशसाहस्रं वैनतेयमुदाहृतम् ।। ४२.
सहस्रपञ्चपञ्चाशत्प्रोक्तं पाद्मं सुविस्तरम्। सप्तदशसहस्रन्तु कूर्मं प्रोक्तं मनोहरम् ।। ४२.
चतुर्विंशति साहस्रं सौकरं परमाद्भुतम्। एकाशीतिसहस्राणि स्कान्दमुक्तं सुविस्तृतम् ।। ४२.
एवमष्टादशोक्तानि पुराणानि बृहन्ति च। पुराणेष्वेषु बहवो धर्मास्ते विनिरूपिताः ।। ४२.
रागिणाञ्च विरागाणां यतीनां ब्रह्मचारिणाम् गृहस्थानां वनस्थानां स्त्रीशूद्राणां विशेषतः ।। ४२.
ब्राह्मणक्षत्रियविशां ये च सङ्करजातयः। गङ्गाद्या या महानद्यो यज्ञव्रततपांसि च ।। ४२.
अनेकविधदानानि यमाश्च नियमैः सह। योगधर्मा बहुविधाः सांख्या भागवतास्तथा ।। ४२.
भक्तिमार्गा ज्ञानमार्गा वैराग्यानिलनीरजाः। उपासनविधिश्चोक्तः कर्मसंशुद्धिचेतसाम् ।। ४२.
ब्राह्मं शैवं वैष्णवं च सौरं शाक्तं तथार्हतम्। षड्दर्शनानि चोक्तानि स्वभावनियतानि च ।। ४२.
एतदन्यच्च विविधं पुराणेषु निरुपितम्। अतः परं किमप्यस्ति न वा बोद्धव्यमुत्तमम् ।। ४२.
न ज्ञायेत यदि व्यासो गोपयेदथ वा भवान् । अत्र नः संशयं छिन्धि पूर्णः पौराणिको यतः ।। ४२.
सूत उवाच।। श्रृणु शौनक वक्ष्यामि प्रश्रमेनं सुदुर्लभम्। अतिगोप्यतरं दिव्यमनाख्येयं प्रचक्षते ।। ४२.