उपस्थितेऽन्तरे ह्यस्मिन् पुनर्वैवस्वतस्य ह। आराधिता ह्यदित्या ते समेत्याहुः परस्परम् ।। ५.
एतामेव महाभागामदितिं संप्रविश्य वै। वैवस्वतेऽन्तरे ह्यस्मिन् योगादर्द्धेन चेतसः ।। ५.
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति। अदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ।। ५.
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः। जज्ञिरे द्वादशादित्या मारीचात् कश्यपात्पुनः ।। ५.
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेऽन्तरे ह्यस्मिन् नरनारायणौ सुरौ ।। ५.
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते। यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ। प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ।। ५.
श्रेष्ठानुश्रविके यस्माच्छक्ताः शब्दादिलक्षणे। अष्टात्मकेऽणिमाद्ये च तस्मात्ते चज्ञिरे सुराः ।। ५.
इत्येष विष्ये रागः सम्भूत्याः कारणं स्मृतम्। ब्रह्मशापेन सम्भूता जयाः स्वायम्भुवे जिताः ।। ५.
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः। तामसे हरयो देवा जाताश्चारिष्णवे तु वै। वैकुण्ठाश्चाक्षुषे साध्या आदित्याः साम्प्रते पुनः ।। ५.
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा। इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।। ५.
ततस्त्वष्टा ततो विष्णुरजघन्योऽजघन्यजः। इत्येते द्वादशादित्याः कश्यपस्य सुताः स्मृताः ।। ५.
सुरभी कश्यपाद्रुद्रानेकादश विजज्ञिरे। महादेवप्रसादेन तपसा भाविता सती ।। ५.
अङ्गारकं तथा सर्पं निऋतिं सदसस्पतिम्। अजैकपादहिर्बुघ्न्यमूर्द्ध्वकेतुं ज्वरं तथा ।। ५.
भुवनञ्चेश्वरं मृत्युं कपालञ्चैव विश्रुतम्। देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान्। तपसा तेन महता सुरभी तानजीजनत् ।। ५.
ततो दुहितरावन्ये सुरभी द्वे व्यजायत। रोहिणी चैव रुद्राभा गान्धारी च यशस्विनी ।। ५.
रोहिण्यां जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः। सुरूपा हंसकीला च भद्रा कामदुघा तथा। सुषुवे कामदुघा तु सुरूपा तनयद्वयम् ।। ५.
हंसकीला नृप मृषीन् भद्रायास्तु व्यजायत। विश्रुतास्तु महाभागा गन्धर्वा वाजिनः सुताः ।। ५.
उच्चैःश्रवास्तदा जाताः खेचरास्ते मनोजवाः। श्वेताः श्येनाः पिशङ्गाश्च सारङ्गा हरितार्जुनाः। रुद्रा देवोपबाह्यास्ते गन्धर्वयोनयो हयाः ।। ५.
भूयो जज्ञे सुरभ्यास्तु श्रीमान् चन्द्राभसुप्रभः। स्रग्वी ककुझी द्युतिमानमृतालयसम्भवः। सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः ।। ५.
इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः। धर्मपुत्राः स्मृताः साध्या विश्वे च वसवस्तथा ।। ५.
अरिष्टनेमिपत्नीनामपत्यानीह षोडश। बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः। प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।। ५.
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः । एते युगसहस्रान्ते जायन्ते पुनरेव हि ।। ५.
सर्वे देवगणा विप्रास्त्रय स्त्रिंशत्तु छन्दजाः। एतेषामपि देवानां निरोधोत्पत्तिरुच्यते ।। ५.
यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ। एते देवनिकायास्ते सम्भवन्ति युगे युगे ।। ५.
साध्याश्च वसवो विश्वे रुद्रादित्यास्तथैव च। अभिजात्या प्रभावैश्च कर्मभिश्चैव विश्रुताः ।। ५.
प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः। अन्तरं ज्ञातुमिच्छामो यश्च यस्माद्विशिष्यते ।। ५.
यश्च यस्मात् प्रभवति यश्च यस्मिन् प्रतिष्ठितः। ज्यायान्यो मध्यमश्चैव कनीयान् यश्च तेषु वै ।। ५.
प्रधानभूतो यस्तेषां गुणभूतश्च तेषु यः। कर्मभिश्चाभिजात्या च प्रभावेण च यो महान्। एतत् प्रभ्रूहि नः सर्वं त्वं हि वेत्थ यथायथम् ।। ५.
अत्र वो वर्णयिष्येहमन्तरन्तेषु यत् स्मृतम्। यद्ब्रह्मविष्णुरुद्राणां श्रृणुध्वं मे विवक्षतः ।। ५.
राजसी तामसी चैव सात्त्विकी चैव ताः स्मृताः । तन्वः स्वयम्भुवः प्रोक्ताः काले काले भवन्ति याः ।। ५.