विप्रास्तथा यूयमपि चेष्ट्वा बहुविधैर्मखैः । आयुषोऽन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ।। ४१.
प्रक्रिया प्रथमे पादे कथावस्तुपरिग्रहः। अनुषङ्ग उपोद्वात उपसंहार एव च ।। ४१.
एवमेतच्चतुष्पादं पुराणं लोकसम्मतम्। उवाच भगवान् साक्षाद्वायुर्लोकहिते रतः ।। ४१.
नैमिषे सत्रमासाद्य मुनिभ्यो मुनिसत्तमाः । तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयानि च ।। ४१.
प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम्। सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ।। ४१.
इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम्। श्रृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ।। ४१.
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः। ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ।। ४१.
तेषां कीर्त्तिमतां कीर्त्तिं प्रजेशानां महात्मनाम्। प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ।। ४१.
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मतम्। कृष्णद्वैपायनेनोक्तं पुराणं ब्रह्मवादिना ।। ४१.
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम्। देवतानामृषीणाञ्च भूरिद्रविणतेजसाम्। स सर्वैर्मुच्यते पापैः पुण्यञ्च महदाप्नुयात् ।। ४१.
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि। धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।। ४१.
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः। अक्षयं सार्वकामीयं पितॄंस्तच्चोपतिष्ठति ।। ४१.
यस्मात्पुरा ह्यनन्तीदं पुराणं तेन चोच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।। ४१.
तथैव त्रिषु वर्णेषु ये मनुष्याः प्रधानतः। इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।। ४१.
यावन्त्यस्य शरीरेषु रोमकूपाणि सर्वशः। तावत्कोटि सहस्राणि वर्षाणां दिवि मोदते। ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ।। ४१.
सर्व्वपापहरं पुण्यं पवित्रञ्च यशस्वि च। ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ।। ४१.
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः। बृहस्पतिस्तु प्रेवाच सवित्रे तदनन्तरम् ।। ४१.
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः। इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ।। ४१.
सारस्वतस्त्रिधाम्ने च त्रिधामा च शरद्वते। शरद्वतस्त्रिविष्टाय सोऽन्तरिक्षाय दत्तवान् ।। ४१.
वर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च। त्रय्यारुणो धनञ्जये स च प्रादात्कृतञ्जये ।। ४१.
कृत ञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ। गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ।। ४१.
निर्यन्तरस्तु प्रोवाच तथा वाजश्रवाय च। स ददौ सोमशूष्माय स ददौ तृणबिन्दवे ।। ४१.
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये। शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ।। ४१.
पराशराज्जातुकर्णस्तस्माद्द्वैपायनः प्रभुः। द्वैपायनात्पुनश्चापि मया प्राप्तं द्विजोत्तमाः ।। ४१.
शांशपायन उवाच ।। मया वै तत्पुनः प्रोक्तं पुत्रायामितबुद्धये। इत्येव वाचा ब्रह्मादिगुरुणा समुदाहृता ।। ४१.
नमस्कार्य्यश्च गुरवः प्रयत्नेन मनीषिभिः। धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ।। ४१.
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा। नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ।। ४१.
नाश्रद्दधानाविदुषे नापुत्राय कथञ्चन। नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ।। ४१.
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमन्तर्गतञ्च । वह्निं वक्रं चन्द्र सूर्य्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुम् ।। ४१.
वायो वेदांश्चान्तरिक्षं शरीरं क्षितिं पादौ तारका रोमकूपान् । सर्वाणि चाङ्गानि तथैव तानि विद्यास्सर्वा यस्य पुच्छं वदन्ति ।। ४१.