सत्त्वमात्रात्मको धर्म्मो गुणसत्त्वे प्रतिष्ठितः। तमोमात्रात्मकोऽधर्म्मो गुणे तमसि तिष्ठति ।। ४१.
अविभागवतावेतौ गुणसाम्यस्थितावुभौ। सर्वकार्य्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।। ४१.
अबुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान् गुणान्। एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ।। ४१.
यदा प्रवर्त्तितव्यन्तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः। भोज्यभोक्तृत्वसम्बन्धं प्रपत्स्येते युतावुभौ ।। ४१.
तस्माच्छरणमव्यक्तं साम्ये स्थित्वा गुणात्मकान्। क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ।। ४१.
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः। क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।। ४१.
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम्। क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ।। ४१.
ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः। ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ।। ४१.
ईश्वरः सर्व्वमुक्तानां ब्रह्मा ब्रह्ममयो महान्। आदि देवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ।। ४१.
अनाद्यौ स्वयमुत्पन्नावुभौ सूक्ष्मौ तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ।। ४१.
अबुद्धि पूर्वकं युक्तौ मशकौ तु वरौ तदा। अप्रत्ययमनाद्यं च स्थितावुदकमप्स्यशः ।। ४१.
प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते। अज्ञागुणैः प्रवर्त्तन्ते रजःसत्त्वतमात्मकम् ।। ४१.
प्रवृत्तिकाले रजसाभिपन्नमहत्त्वभूतादिविशेष्यताञ्च। विशेषतां चेन्द्रियताञ्च यान्ति गुणावसाने पतिभिर्मनुष्याः ।। ४१.
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम्। रजःसत्त्वतमा व्यक्ता विधर्म्माणः परस्परम् ।। ४१.
आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः। संसिद्धकार्य्यकरणा उत्पद्यन्तेऽभिमानिनः ।। ४१.
सर्वे सत्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च। प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ।। ४१.
संसरन्तस्तु ते सर्वे स्तानप्रकरणैः सह। कार्य्याणि प्रतिपत्स्यन्ते उत्पद्यन्ते पुनः पुनः ।। ४१.
गुणमात्रात्मकाश्चैव धर्म्माधर्म्मौ परस्परम्। आरप्सन्तीह चान्योन्यं वरेणानुग्रहेण च ।। ४१.
सर्वे तुल्याः प्रसृष्टार्थं सर्ग्गदौ यान्ति विक्रियाम्। गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ।। ४१.
गुणास्ते यानि सर्वाणि प्राक् दृष्टेः प्रतिपेदिरे। तान्येव प्रतिपद्यन्ते सृष्टमानाः पुनः पुनः ।। ४१.
हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते। तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ।। ४१.
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु। विप्रयोगाश्च भूतानां युणोभ्यः संप्रवर्त्तते ।। ४१.
इत्येष वो मया ख्यातः पुनः सर्गः समासतः। समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ।। ४१.
अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात्। प्रधान पुरुषाभ्यान्तु जायते च महेश्वरः ।। ४१.
स पुनः सम्भावयिता जायते ब्रह्मसंज्ञितः। सृजते स पुनर्लोकानभिमानगुणात्मकान् ।। ४१.
अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः। युगपत् सम्प्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च। भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।। ४१.
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम्। कीर्त्तितं वो यथा पूर्वं तथैवाभ्युपधार्य्यताम् ।। ४१.
एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययञ्च। तस्मिन् सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ।। ४१.
यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः। त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याँल्लोकान्प्राप्य यथेष्टं चरिष्यथ ।। ४१.
एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा। जग्मुश्चावभृधस्नाताः स्वर्गं सर्वे तु सत्रिणः ।। ४१.