अत्यद्भुतानि कर्म्माणि विधिमान्धर्म्मनिश्चयः। विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ।। ४१.
तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा। मनःकर्मसुखं सौते प्रीणात्याभूतसम्भवम् ।। ४१.
एवमाराध्य ते सूतं सत्कृत्य च महर्षयः । पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ।। ४१.
कथं सूत महाप्राज्ञ पुनं सर्गः प्रपत्स्यते। बन्धेषु सम्प्रलीनेषु गुणसाम्ये तमोमये ।। ४१.
विकारेष्वविसृष्टोषु ह्यव्यक्ते चात्मनि स्थिते। अप्रवृत्तौ ब्रह्मणस्तु महासायुज्यगैस्तदा । कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।। ४१.
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः । व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।। ४१.
अहं वौ वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते। पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ।। ४१.
दृष्टं चैवानुमेयञ्च तर्कं वक्ष्यामि युक्तितः। तस्माद्वाचो निवर्त्तन्ते ह्यप्राप्य मनसा सह ।। ४१.
अव्यक्तवत् परोक्षत्वाद्घ्रहणं तद्दुरासदम्। विकारैः प्रतिसंदृष्टे गुणसाम्ये निवर्त्तते ।। ४१.
प्रधानं पुरुषाणाञ्च साधर्म्म्येणैव तिष्ठति। धर्म्माधर्म्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ।। ४१.
सत्त्वमात्रात्मको धर्म्मो गुणसत्त्वे प्रतिष्ठितः। तमोमात्रात्मकोऽधर्म्मो गुणे तमसि तिष्ठति ।। ४१.
अविभागवतावेतौ गुणसाम्यस्थितावुभौ। सर्वकार्य्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।। ४१.
अबुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान् गुणान्। एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ।। ४१.
यदा प्रवर्त्तितव्यन्तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः। भोज्यभोक्तृत्वसम्बन्धं प्रपत्स्येते युतावुभौ ।। ४१.
तस्माच्छरणमव्यक्तं साम्ये स्थित्वा गुणात्मकान्। क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ।। ४१.
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः। क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।। ४१.
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम्। क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ।। ४१.
ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः। ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ।। ४१.
ईश्वरः सर्व्वमुक्तानां ब्रह्मा ब्रह्ममयो महान्। आदि देवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ।। ४१.
अनाद्यौ स्वयमुत्पन्नावुभौ सूक्ष्मौ तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ।। ४१.
अबुद्धि पूर्वकं युक्तौ मशकौ तु वरौ तदा। अप्रत्ययमनाद्यं च स्थितावुदकमप्स्यशः ।। ४१.
प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते। अज्ञागुणैः प्रवर्त्तन्ते रजःसत्त्वतमात्मकम् ।। ४१.
प्रवृत्तिकाले रजसाभिपन्नमहत्त्वभूतादिविशेष्यताञ्च। विशेषतां चेन्द्रियताञ्च यान्ति गुणावसाने पतिभिर्मनुष्याः ।। ४१.
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम्। रजःसत्त्वतमा व्यक्ता विधर्म्माणः परस्परम् ।। ४१.
आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः। संसिद्धकार्य्यकरणा उत्पद्यन्तेऽभिमानिनः ।। ४१.
सर्वे सत्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च। प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ।। ४१.
संसरन्तस्तु ते सर्वे स्तानप्रकरणैः सह। कार्य्याणि प्रतिपत्स्यन्ते उत्पद्यन्ते पुनः पुनः ।। ४१.
गुणमात्रात्मकाश्चैव धर्म्माधर्म्मौ परस्परम्। आरप्सन्तीह चान्योन्यं वरेणानुग्रहेण च ।। ४१.
सर्वे तुल्याः प्रसृष्टार्थं सर्ग्गदौ यान्ति विक्रियाम्। गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ।। ४१.
गुणास्ते यानि सर्वाणि प्राक् दृष्टेः प्रतिपेदिरे। तान्येव प्रतिपद्यन्ते सृष्टमानाः पुनः पुनः ।। ४१.