तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते। अनामरूपक्षेत्रज्ञनामरूपं प्रचक्षते ।। ४०.
यस्मात्क्षेत्रं विजानाति तस्मात्क्षेत्रज्ञ उच्यते। क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ।। ४०.
क्षेत्रज्ञः स्मर्य्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते। क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ।। ४०.
क्षयणात् करणाच्चैव क्षतत्राणात्तथैव च। भोज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ।। ४०.
महदाद्यं विशेषान्तं सवैरूप्यं विलक्षणम्। विकारलक्षणं तद्वै साक्षरक्षरमेव च ।। ४०.
तमेव च विकारन्तु यस्माद्वै क्षरते पुनः। तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ।। ४०.
सुखदुःखमोहभावा भोज्यमित्यभिधीयते। अचेतत्वाद्धि विषयस्तद्धि धर्म्मविभुः स्मृतः ।। ४०.
न क्षीयते न क्षरति विकारप्रसृतन्तु तत्। अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ।। ४०.
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते। पुरप्रत्ययिको यस्मात्पूरुषेत्यभिधीयते ।। ४०.
पुरुषं कथयस्वाथ कथन्तज्ज्ञैर्विभाष्यते। शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ।। ४०.
अस्ति नास्तीति सोऽन्यो वा बद्धो मुक्तो गतः स्थितः। नैर्हेतिकान्तनिर्द्देश्यसूक्तस्तस्मिन्न विद्यते ।। ४०.
शुद्धत्वान्न तु देश्यो वै दृष्टत्वात्समदर्शनः। आत्मप्रत्ययकारी सारनूनञ्चापि हेतुकम्। भावग्राह्यमनुमान्यं चिन्तयन्न प्रमुह्यते ।। ४०.
यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम्। दृश्यादृश्येषु निर्द्देश्यं तदा तदुद्धरं वरम् ।। ४०.
एवं ज्ञात्वा स विज्ञाता ततः शान्तिं नियच्छति। कार्य्ये च कारणे चैव बुद्ध्यादौ भौतिके तदा ।। ४०.
संप्रयुक्तो वियुक्तो वा जीवतो वा मृतस्य च। विज्ञाता न च दृश्येत पृथक्त्वेनेह सर्व्वशः ।। ४०.
स्वेनात्मानं तमात्मानं कारणात्मा नियच्छति। प्रकृतौ कारणे चैव स्वात्मन्येवोपतिष्ठति ।। ४०.
अस्ति नास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः। एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषेति वा ।। ४०.
आत्मवान् स निरात्मा वा चेतनोऽचेतनोऽपि वा। कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव वा ।। ४०.
यज्ज्ञात्वा न निवर्त्तन्ते क्षेत्रज्ञे तु निरञ्जने। अवाच्यं तदनाख्यानादग्राह्यत्वादहेतुनि ।। ४०.
अप्रतर्क्यमचिन्त्यत्वादवाप्यत्वाच्च सर्वशः। नाभिलिम्पति तत्तत्त्वं सम्प्राप्य मनसा सह ।। ४०.
क्षेत्रेज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने। व्यपे(ये)तसुखदुःखे च निरुद्धे शान्तिमागते ।। ४०.
निरात्मके पुनस्तस्मिन्वाच्यावाच्यो न विद्यते। एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ।। ४०.
सृजते ग्रसते चैव ग्रस्तः पर्यवतिष्ठते। क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्वं प्रवर्त्तते ।। ४०.
अधिष्ठानप्रवृत्तेन तस्य ते बुद्धिपूर्वकम्। साधर्म्यवैधर्म्यकृतसंयोगो विधितस्तयोः। अनादिमान् स संयोगो महापुरुषजः स्मृतः ।। ४०.
यावच्च सर्गप्रतिसर्गकालस्तावच्च तिष्ठति सुसन्निरुध्य। पूर्वं हितव्ये तदबुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थमेव ।। ४०.
एषा निसर्गप्रतिसर्गपूर्वं प्रधानिकी चेश्वरकारिता च। अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ।। ४०.
इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः। उक्तो ह्यस्मिंस्तदात्यन्तं कविभिस्तत्प्रमुच्यते ।। ४०.
इत्येष प्रतिसर्गोवस्त्रिविधः कीर्त्तितो मया ४०.
सूत सुमहदाख्यानं भवता परिकीर्तितम्। प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ।। ४१.
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम्। दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ।। ४१.