प्राणस्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च। शैत्यात्प्रकुपितो वायुरूर्द्ध्वन्तु क्रमते ततः ।। ४०.
स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः। समासात्संवृते ज्ञाने संवृतेषु च कर्म्मसु ।। ४०.
स जीवोऽनभ्यधिष्टानः कर्म्मभिः स्वैः पुराकृतैः। अष्टाङ्गप्राणवृत्तीर्वै स विच्यावयते पुनः ।। ४०.
शरीरं प्रजहंसो वै निरुच्छ्वासस्ततो भवेत्। एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ।। ४०.
यथेह लोके खद्योतं नीयमानमितस्ततः । रञ्जनं तद्वधे यत्तु नेता नेता न विद्यते ।। ४०.
तृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम्। शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ।। ४०.
अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् । वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ।। ४०.
अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम्। अव्यक्ताद्यस्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ।। ४०.
वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्राविरोधिनः। वर्णाश्रमाणां धर्म्मोऽयं देवस्थानेषु कारणम् ।। ४०.
ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता। ऐश्वर्य्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ।। ४०.
निमित्तमप्रतीघात इष्टे शब्दादिलक्षणे। अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ।। ४०.
क्षेत्रज्ञेष्वनुसज्यन्ते गणमात्रात्मकानि तु। प्रावृट्काले पृथक्त्वेन पश्यन्तीह न चक्षुषा ।। ४०.
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा। श्वाविति श्वानपानश्च योनीः प्रविशतस्तथा ।। ४०.
तिर्य्यगूर्द्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम्। जीवप्राणास्तथा लिङ्गं कारणञ्च चतुष्टयम् ।।. ४०.
पर्य्यायवाचकैः शब्दैरेकार्थैः सोऽभिलिख्यते। व्यक्ताव्यक्ते प्रमाणोऽयं स वै रूपं तु कृत्स्नशः ।। ४०.
अव्यक्तान्त गृहीतं च क्षेत्रज्ञाधिष्ठितञ्च यत् । एवं ज्ञात्वा शुचिर्भूत्त्वा ज्ञानाद्वै विप्रमुच्यते ।। ४०.
नष्टञ्चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शनम्। यथेष्टं परिनिर्य्याति भिन्ने देहे सुनिर्वृते ।। ४०.
भिद्यते करणञ्चापि ह्यव्यक्ताज्ञानिनस्ततः। मुक्तो गुणशरीरेण प्राणाद्येन तु सर्वशः ।। ४०.
नान्यच्छरीरमादत्ते दग्धे बीजे यथाङ्कुरः। जीविकः सर्वसंसाराद्बीजशारीरमानसः ।। ४०.
ज्ञानाच्चतुर्द्दशाच्छुद्धः प्रकृतिं सोऽनुवर्त्तते। प्रकृतिं सत्यमित्याहु र्विकारोऽनृतमुच्यते ।। ४०.
तत्सद्भावोऽनृतं ज्ञेयं सद्भावः सत्यमुच्यते। अनामरूपक्षेत्रज्ञनामरूपं प्रचक्षते ।। ४०.
यस्मात्क्षेत्रं विजानाति तस्मात्क्षेत्रज्ञ उच्यते। क्षेत्रप्रत्ययतो यस्मात्क्षेत्रज्ञः शुभ उच्यते ।। ४०.
क्षेत्रज्ञः स्मर्य्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते। क्षेत्रत्वप्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययी सदा ।। ४०.
क्षयणात् करणाच्चैव क्षतत्राणात्तथैव च। भोज्यत्वाद्विषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ।। ४०.
महदाद्यं विशेषान्तं सवैरूप्यं विलक्षणम्। विकारलक्षणं तद्वै साक्षरक्षरमेव च ।। ४०.
तमेव च विकारन्तु यस्माद्वै क्षरते पुनः। तस्माच्च कारणाच्चैव क्षरमित्यभिधीयते ।। ४०.
सुखदुःखमोहभावा भोज्यमित्यभिधीयते। अचेतत्वाद्धि विषयस्तद्धि धर्म्मविभुः स्मृतः ।। ४०.
न क्षीयते न क्षरति विकारप्रसृतन्तु तत्। अक्षरं तेन चाप्युक्तमक्षीणत्वात्तथैव च ।। ४०.
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते। पुरप्रत्ययिको यस्मात्पूरुषेत्यभिधीयते ।। ४०.
पुरुषं कथयस्वाथ कथन्तज्ज्ञैर्विभाष्यते। शुद्धो निरञ्जनाभासो ज्ञानाज्ञानविवर्जितः ।। ४०.