अनिष्टमभिषङ्गं हि प्रीतितापविषादनम्। दुःखलाभे न तापञ्च सुखानुस्मरणं तथा ।। ४०.
इत्येष वैषयो रागः सम्भूत्याः कारणं स्मृतम्। ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके। अज्ञानपूर्वकं तस्मादज्ञानन्तु विवर्जयेत् ।। ४०.
यस्य चार्षं न प्रमाणं शिष्टाचारं तथैव च। वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ।। ४०.
एष मार्गो हि निरधितिर्यग्योनौ च कारणम्। तिर्यग्योनिगतञ्चैव कारणं स निरुच्यते ।। ४०.
विविधा यातना स्थाने तिर्यग्योनौ च षड्विधे। कारणे विषये चैव प्रतिघातस्तु सर्वशः ।। ४०.
अनैश्वर्य्यन्तु तत्सर्वं प्रतिघातात्मकं स्मृतम् । इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ।। ४०.
सत्त्वस्थमात्रकं चित्तं यथा सत्त्वप्रदर्शनात्। तत्त्वानाञ्च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ।। ४०.
सत्त्वक्षेत्रज्ञनानात्वमेतज्ज्ञानार्थदर्शनम्। नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योगमुच्यते ।। ४०.
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च । संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।। ४०.
निःसम्बन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते। स्वात्मव्यवस्थितश्चापि विरूपाख्येन लिख्यते ।। ४०.
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयो। स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ।। ४०.
पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात्। लिङ्गाभावात्तु कैवल्यं कैवत्यात्तु निरञ्जनम् ।। ४०.
निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते। तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ।। ४०.
निमित्तमप्रतीघाते इष्टशब्दादिलक्षणे। अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ।। ४०.
क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु। अत उर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ।। ४०.
दिव्ये च मानुषे चैव विषये पञ्चलक्षणे। अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ।। ४०.
तापप्रीतिविषादानां कार्य्यन्तु परिवर्जनम्। एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ।। ४०.
अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च। विशुद्धं कार्य्यकरणं सत्वाभ्येति तरान्तु यः ।। ४०.
परिपव्ककषायो हि कृत्स्नान्दोषान्प्रपश्यति। ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ।। ४०.
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ।। ४०.
प्राणस्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च। शैत्यात्प्रकुपितो वायुरूर्द्ध्वन्तु क्रमते ततः ।। ४०.
स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः। समासात्संवृते ज्ञाने संवृतेषु च कर्म्मसु ।। ४०.
स जीवोऽनभ्यधिष्टानः कर्म्मभिः स्वैः पुराकृतैः। अष्टाङ्गप्राणवृत्तीर्वै स विच्यावयते पुनः ।। ४०.
शरीरं प्रजहंसो वै निरुच्छ्वासस्ततो भवेत्। एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ।। ४०.
यथेह लोके खद्योतं नीयमानमितस्ततः । रञ्जनं तद्वधे यत्तु नेता नेता न विद्यते ।। ४०.
तृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम्। शब्दाद्ये विषये दोषविषये पञ्चलक्षणे ।। ४०.
अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् । वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ।। ४०.
अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम्। अव्यक्ताद्यस्तु विज्ञेया भूतान्ताः प्रकृतेर्लयाः ।। ४०.
वर्णाश्रमाचारयुक्ताः शिष्टाः शास्त्राविरोधिनः। वर्णाश्रमाणां धर्म्मोऽयं देवस्थानेषु कारणम् ।। ४०.
ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता। ऐश्वर्य्यमणिमाद्यं हि कारणं ह्यष्टलक्षणम् ।। ४०.