तम साभिभवाज्जन्तुर्याथातथ्यं न विन्दति। अतत्द्दर्शनात्सोऽथ त्रिविधं बध्यते ततः ।। ४०.
प्राकृतेन च बन्धेन तथा वैकारिकेन च। दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्त्तते ।। ४०.
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः। अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ।। ४०.
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः। येषामेते मनोदोषा ज्ञानदोषा विपर्य्ययात् ।। ४०.
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम्। अज्ञानं तमसो मूलं कर्म्मद्वयफलं रजः। कर्म्मजस्तु पुनर्देहो महादुःखं प्रवर्त्तते ।। ४०.
श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणतस्तथा। पुनर्भवकरी दुःखा कर्म्मणां जायते तु सा ।। ४०.
सतृष्णोऽभिहितो बालः स्वकृतैः कर्म्मणः फलैः। तैलपालीकवज्जीवस्तत्रैव परि वर्त्तते ।। ४०.
तस्मात्स्थूलमनर्थानामज्ञानमुपदिश्यते । तं शक्तमवधार्य्यैकं ज्ञाने यत्नं समाचरेत् ।। ४०.
ज्ञानाद्विजयते सर्वं त्यागाद्बुद्धिर्विरज्यते। वैराग्याच्छुद्ध्यते चापि शुद्धः सत्त्वेन मुच्यते ।। ४०.
अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम्। अभिषङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ।। ४०.
अनिष्टमभिषङ्गं हि प्रीतितापविषादनम्। दुःखलाभे न तापञ्च सुखानुस्मरणं तथा ।। ४०.
इत्येष वैषयो रागः सम्भूत्याः कारणं स्मृतम्। ब्रह्मादौ स्थावरान्ते वै संसारे ह्याधिभौतिके। अज्ञानपूर्वकं तस्मादज्ञानन्तु विवर्जयेत् ।। ४०.
यस्य चार्षं न प्रमाणं शिष्टाचारं तथैव च। वर्णाश्रमविरोधी यः शिष्टशास्त्रविरोधकः ।। ४०.
एष मार्गो हि निरधितिर्यग्योनौ च कारणम्। तिर्यग्योनिगतञ्चैव कारणं स निरुच्यते ।। ४०.
विविधा यातना स्थाने तिर्यग्योनौ च षड्विधे। कारणे विषये चैव प्रतिघातस्तु सर्वशः ।। ४०.
अनैश्वर्य्यन्तु तत्सर्वं प्रतिघातात्मकं स्मृतम् । इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा ।। ४०.
सत्त्वस्थमात्रकं चित्तं यथा सत्त्वप्रदर्शनात्। तत्त्वानाञ्च तथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् ।। ४०.
सत्त्वक्षेत्रज्ञनानात्वमेतज्ज्ञानार्थदर्शनम्। नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योगमुच्यते ।। ४०.
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च । संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते ।। ४०.
निःसम्बन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते। स्वात्मव्यवस्थितश्चापि विरूपाख्येन लिख्यते ।। ४०.
इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञानमोक्षयो। स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः ।। ४०.
पूर्वं वियोगो ज्ञानेन द्वितीयो रागसंक्षयात्। लिङ्गाभावात्तु कैवल्यं कैवत्यात्तु निरञ्जनम् ।। ४०.
निरञ्जनत्वाच्छुद्धस्तु ततो नेता न विद्यते। तृष्णाक्षयात्तृतीयस्तु व्याख्यातं मोक्षकारणम् ।। ४०.
निमित्तमप्रतीघाते इष्टशब्दादिलक्षणे। अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ।। ४०.
क्षेत्रज्ञेष्ववसज्यन्ते गुणमात्रात्मकानि तु। अत उर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ।। ४०.
दिव्ये च मानुषे चैव विषये पञ्चलक्षणे। अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ।। ४०.
तापप्रीतिविषादानां कार्य्यन्तु परिवर्जनम्। एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ।। ४०.
अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च। विशुद्धं कार्य्यकरणं सत्वाभ्येति तरान्तु यः ।। ४०.
परिपव्ककषायो हि कृत्स्नान्दोषान्प्रपश्यति। ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ।। ४०.
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ।। ४०.