अव्यूहा शङ्कराच्चैव ज्योतिर्वच्च व्यवस्थितः। यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धिता। तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।। ४०.
यदा प्रवर्त्तते चैषां भेदानां चैव संयमाः। स्वभावकारिताः सर्वे कालेन महता तदा ।। ४०.
निवर्त्तते तदा तस्य स्थितिरागः स्वयम्भुवः। सहसा योज्यकैः सर्वैर्ब्रह्मलोक निवासिभिः ।। ४०.
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम्। तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ।। ४०.
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम्। भोज्यभोक्तृत्वनानात्वे तेषां तद्भवदर्शिनाम् ।। ४०.
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः। प्रकृतौ करणा नीताः सर्वे नानाप्रदर्शिनः ।। ४०.
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः। शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।। ४०.
तत्रैव परिनिर्वाणाः स्मृता नागामिनस्तु ते। निर्गुणत्वानिरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।। ४०.
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवः। भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ।। ४०.
इत्येष संयमश्चैव तत्त्वानां करणैः सह। तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्त्तको द्विजाः ।। ४०.
सूत उवाच।। धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा। ऊर्द्ध्व भावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ।। ४०.
सर्वमेतत्प्रयातस्य गुणमात्रात्मकं स्मृतम्। निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ।। ४०.
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति। योन्यवस्था स्वभावे च देहिनां तु निषिच्यते ।। ४०.
जन्तूनां पापपुण्यन्तु प्रकृतौ यत्प्रतिष्ठितम् । अव्यक्त स्थानि तान्येव पुण्यपापानि जन्तवः। ये जयन्ति पुनर्देहे देहान्यत्वे तथैव च ।। ४०.
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ । करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ।। ४०.
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः। सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः। संयुज्यन्ते वियुज्यन्ते करणैः सञ्चरन्ति च ।। ४०.
राजसी तामसी चैव सात्विकी चैव वृत्तयः। गुणमात्राः प्रवर्त्तन्ते पुरुषाधिष्ठितास्त्रिधा ।। ४०.
ऊर्द्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः। तयोः प्रवर्त्तकं मद्ये इहैवावर्त्तकं रजः ।। ४०.
इत्येवं परिवर्त्तन्ते त्रयः स्रोतोगुणात्मकाः। लोकेषु सर्वभूतानां तन्न कार्यं विजानता ।। ४०.
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः । एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ।। ४०.
तम साभिभवाज्जन्तुर्याथातथ्यं न विन्दति। अतत्द्दर्शनात्सोऽथ त्रिविधं बध्यते ततः ।। ४०.
प्राकृतेन च बन्धेन तथा वैकारिकेन च। दक्षिणाभिस्तृतीयेन बद्धोऽत्यन्तं विवर्त्तते ।। ४०.
इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः। अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् ।। ४०.
अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः। येषामेते मनोदोषा ज्ञानदोषा विपर्य्ययात् ।। ४०.
रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम्। अज्ञानं तमसो मूलं कर्म्मद्वयफलं रजः। कर्म्मजस्तु पुनर्देहो महादुःखं प्रवर्त्तते ।। ४०.
श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणतस्तथा। पुनर्भवकरी दुःखा कर्म्मणां जायते तु सा ।। ४०.
सतृष्णोऽभिहितो बालः स्वकृतैः कर्म्मणः फलैः। तैलपालीकवज्जीवस्तत्रैव परि वर्त्तते ।। ४०.
तस्मात्स्थूलमनर्थानामज्ञानमुपदिश्यते । तं शक्तमवधार्य्यैकं ज्ञाने यत्नं समाचरेत् ।। ४०.
ज्ञानाद्विजयते सर्वं त्यागाद्बुद्धिर्विरज्यते। वैराग्याच्छुद्ध्यते चापि शुद्धः सत्त्वेन मुच्यते ।। ४०.
अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम्। अभिषङ्गाय यो यस्माद्विषयोऽप्यवशात्मनः ।। ४०.