सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्। उदकावरणं यच्च ज्योतिषां लीयते तु तत् ।। ४०.
यत्तैजसं चावरणमाकाशं ग्रसते तु तत्। यद्वायव्यं चावरणमाकाशं ग्रसते तु तत् ।। ४०.
आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्। भूतादिं ग्रसते चापि महान्वै बुद्धि लक्षणः ।। ४०.
महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्। एतौ संहारविस्तारौ ब्रह्माव्यक्तौ ततः पुनः ।। ४०.
सृजते ग्रसते चैव विकारान्सर्गसंयमे। संहारकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ।। ४०.
गत्वा जवञ्जवीभावे स्थानेष्वेषु प्रसंयमान्। प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ।। ४०.
अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते। साधर्म्यवैधर्म्मकृतसंयोगोऽनादिमांस्तयोः ।। ४०.
एवं सर्गेषु विज्ञेयं क्षेत्रज्ञेष्विह ब्राह्मणाः । ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्पृथक् ।। ४०.
विषयाविषयत्वञ्च क्षेत्रक्षेत्रज्ञयोः स्मृतम्। ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ।। ४०.
क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते। बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ।। ४०.
अव्यूहा शङ्कराच्चैव ज्योतिर्वच्च व्यवस्थितः। यस्मात्प्रतिशरीरं हि सुखदुःखोपलब्धिता। तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।। ४०.
यदा प्रवर्त्तते चैषां भेदानां चैव संयमाः। स्वभावकारिताः सर्वे कालेन महता तदा ।। ४०.
निवर्त्तते तदा तस्य स्थितिरागः स्वयम्भुवः। सहसा योज्यकैः सर्वैर्ब्रह्मलोक निवासिभिः ।। ४०.
विनिवृत्ते तदा रागे स्थितावात्मनिवासिनाम्। तत्कालवासिनां तेषां तदा तद्दोषदर्शिनाम् ।। ४०.
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम्। भोज्यभोक्तृत्वनानात्वे तेषां तद्भवदर्शिनाम् ।। ४०.
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः। प्रकृतौ करणा नीताः सर्वे नानाप्रदर्शिनः ।। ४०.
स्वात्मन्येवावतिष्ठन्ते प्रशान्ता दर्शनात्मकाः। शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।। ४०.
तत्रैव परिनिर्वाणाः स्मृता नागामिनस्तु ते। निर्गुणत्वानिरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।। ४०.
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवः। भिद्यन्ते सर्वभूतानां करणानि प्रसंयमे ।। ४०.
इत्येष संयमश्चैव तत्त्वानां करणैः सह। तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्त्तको द्विजाः ।। ४०.
सूत उवाच।। धर्माधर्मौ तपो ज्ञानं शुभे सत्यानृते तथा। ऊर्द्ध्व भावो ह्यधोभावो सुखदुःखे प्रियाप्रिये ।। ४०.
सर्वमेतत्प्रयातस्य गुणमात्रात्मकं स्मृतम्। निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् ।। ४०.
प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति। योन्यवस्था स्वभावे च देहिनां तु निषिच्यते ।। ४०.
जन्तूनां पापपुण्यन्तु प्रकृतौ यत्प्रतिष्ठितम् । अव्यक्त स्थानि तान्येव पुण्यपापानि जन्तवः। ये जयन्ति पुनर्देहे देहान्यत्वे तथैव च ।। ४०.
धर्माधर्मौ तु जन्तूनां गुणमात्रात्मकावुभौ । करणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ।। ४०.
सुचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः। सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः। संयुज्यन्ते वियुज्यन्ते करणैः सञ्चरन्ति च ।। ४०.
राजसी तामसी चैव सात्विकी चैव वृत्तयः। गुणमात्राः प्रवर्त्तन्ते पुरुषाधिष्ठितास्त्रिधा ।। ४०.
ऊर्द्ध्वं देवात्मकं सत्त्वमधोभागात्मकं तमः। तयोः प्रवर्त्तकं मद्ये इहैवावर्त्तकं रजः ।। ४०.
इत्येवं परिवर्त्तन्ते त्रयः स्रोतोगुणात्मकाः। लोकेषु सर्वभूतानां तन्न कार्यं विजानता ।। ४०.
अविद्याप्रत्ययारम्भा आरभ्यन्ते हि मानवैः । एतास्तु गतयस्तिस्रः शुभाः पापात्मिकाः स्मृताः ।। ४०.