आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः। सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ।। ४०.
अपामस्ति गुणो यस्तु ज्योतिषे लीयते रसः। नश्यन्त्यापस्तदान्ते च रसतन्मात्रसङ्क्षयात् ।। ४०.
तेजसा संहृतरसा ज्योतिष्ट्वं प्राप्नुवन्त्युत । ग्रस्ते च सलिले तेजः सर्व्वतोमुखमीक्ष्यते ।। ४०.
अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलन्तदा। सर्वमापूर्य्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ।। ४०.
अर्चिर्भिः सन्तते तस्मिंस्तिर्यगूर्द्ध्वमधस्ततः । ज्योतिषोऽपि गुणं रूपं वायुरन्ति प्रकाशकम्। प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ।। ४०.
प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः। उपशाम्यति तेजो हि वायुना धूयते महत् ।। ४०.
निरालोके तदा लोके वायुभूते च तेजसि। ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः ।। ४०.
ऊर्द्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश । वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ।। ४०.
प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम्। अरूपमरसस्पर्घमगन्धं न च मूर्तिमत् ।। ४०.
सर्वमापूरयन्नादैः सुमहत्तत्प्रकाशते। परिमण्डलन्तत्सुषिरमाकाशं शब्दलक्षणम् ।। ४०.
शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति। तन्तु शब्दगुणन्तस्य भूतादिं ग्रसते पुनः ।। ४०.
भूतेन्द्रियेषु युघपद्भूतादौ संस्थितेषु वै। अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ।। ४०.
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः। महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ।। ४०.
बुद्धिर्मनश्च लिङ्गश्च महानक्षर एव च। पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः ।। ४०.
सम्प्रलीनेषु भूतेषु गुणसाम्ये तमोमये। स्वात्मन्येव स्थिते चैव कारणे लोककारणे ।। ४०.
विनिवृत्ते तदा सर्गे प्रकृत्यावस्थितेन वै । तदाद्यन्तपरोक्षत्वा ददृष्टत्वाच्च कस्यचित् ।। ४०.
अनाख्यानादबोधत्वादज्ञानाज्ज्ञानिनामपि। आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ।। ४०.
भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते। स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मिके ।। ४०.
अनिर्द्देश्या प्रवृत्तिर्वै स्वात्मिका कारणे न तु। एवं सप्तादयोऽभ्यस्तात्क्रमात्प्रकृतयस्तु वै ।। ४०.
प्रत्याहारे तदा सर्गे प्रविश्यन्ति परस्परम्। येनेदमावृतं सर्वं मण्डलन्तु प्रलीयते ।। ४०.
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम्। उदकावरणं यच्च ज्योतिषां लीयते तु तत् ।। ४०.
यत्तैजसं चावरणमाकाशं ग्रसते तु तत्। यद्वायव्यं चावरणमाकाशं ग्रसते तु तत् ।। ४०.
आकाशावरणं यच्च भूतादिर्ग्रसते तु तत्। भूतादिं ग्रसते चापि महान्वै बुद्धि लक्षणः ।। ४०.
महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम्। एतौ संहारविस्तारौ ब्रह्माव्यक्तौ ततः पुनः ।। ४०.
सृजते ग्रसते चैव विकारान्सर्गसंयमे। संहारकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ।। ४०.
गत्वा जवञ्जवीभावे स्थानेष्वेषु प्रसंयमान्। प्रत्याहारे वियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ।। ४०.
अव्यक्तं क्षेत्रमित्याहुर्ब्रह्म क्षेत्रज्ञ उच्यते। साधर्म्यवैधर्म्मकृतसंयोगोऽनादिमांस्तयोः ।। ४०.
एवं सर्गेषु विज्ञेयं क्षेत्रज्ञेष्विह ब्राह्मणाः । ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक्पृथक् ।। ४०.
विषयाविषयत्वञ्च क्षेत्रक्षेत्रज्ञयोः स्मृतम्। ब्रह्मा तु विषयो ज्ञेयोऽविषयः क्षेत्रमुच्यते ।। ४०.
क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते। बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ।। ४०.