अहोरात्रविभागश्च नक्षत्राणि समासतः। मुहूर्त्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ।। ५.
अहोरात्रकलानान्तु षट्शतीत्यधिका स्मृता। रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ।। ५.
ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु। अविशेषेषु कालेषु योज्यः स पितृदानतः ।। ५.
रौद्रः सार्वस्तथा मैत्रः पिण्ड्यवासव एव च। आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ।। ५.
प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निऋतिस्तथा। वारुणश्च तथार्यम्णो भागाश्चापि दिनाश्रिताः ।। ५.
एते दिनमुहूर्त्ताश्च दिवाकरविनिर्मिताः। शङ्कुच्छायानिशेषेण वोदेतव्याः प्रमाणतः ।। ५.
अजास्तथाहिर्बुध्न्यश्च पूषा हि यमदेवताः। आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ।। ५.
ब्रह्मसौम्यस्तथादित्यो बार्हस्पत्योऽथ वैष्णवः। सावित्रोऽथ तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ।। ५.
एकरात्रिमुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च। इन्दोर्गत्युदया ज्ञेया नालिकाः पादिकास्तथा। कालावस्थास्विगास्त्वेते मुहूर्ता देवताः स्मृताः ।। ५.
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च। दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ।। ५.
स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम्। वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ।। ५.
अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता । पुष्योऽश्लेषा पुनर्वसू वीथिरैरावती मता। तिस्रस्तु वीथयो ह्येता उत्तरे मार्ग उच्यते ।। ५.
पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता । हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्धिता ।। ५.
ज्येष्ठा विशाखानुराधा वीथी जारद्गवी स्मृता। एतास्तु वीथयस्तिस्रो मध्यमे मार्ग उच्यते ।। ५.
मूलञ्चाषाढे द्वे चापि अजवीथ्यभिशब्दिता । श्रवणञ्च धनिष्ठा च गार्गी शतभिषक्तथा ।। ५.
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता। स्मृता वीथ्यस्तु तिस्रस्ता मार्गे वै दक्षिणे बुधैः ।। ५.
सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ। सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे चैव कीर्त्तिताः। तासामपत्यान्यभवन् दीप्तान्यमिततेजसा ।। ५.
यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः। चतुर्दश महाभागाः सर्वास्ता लोकमातरः ।। ५.
अदितिर्दितिर्दनुः काला अरिष्टा सुरसा तथा। सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा। कद्रुर्मुनिश्च धर्मज्ञः प्रजास्तासां निबोधत ।। ५.
चारिष्णवेऽन्तरेऽतीते ये द्वादश पुरोगमाः। वैकुण्ठानाम ते सात्र्या बभूवुश्चाक्षुषेऽन्तरे ।। ५.
उपस्थितेऽन्तरे ह्यस्मिन् पुनर्वैवस्वतस्य ह। आराधिता ह्यदित्या ते समेत्याहुः परस्परम् ।। ५.
एतामेव महाभागामदितिं संप्रविश्य वै। वैवस्वतेऽन्तरे ह्यस्मिन् योगादर्द्धेन चेतसः ।। ५.
गच्छामः पुत्रतामस्यास्तन्नः श्रेयो भविष्यति। अदित्यास्तु प्रसूतानामादित्यत्वं भविष्यति ।। ५.
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः। जज्ञिरे द्वादशादित्या मारीचात् कश्यपात्पुनः ।। ५.
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेऽन्तरे ह्यस्मिन् नरनारायणौ सुरौ ।। ५.
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते। यथा सूर्यस्य लोकेऽस्मिन् उदयास्तमयावुभौ। प्रजापतेश्च विष्णोश्च भवस्य च महात्मनः ।। ५.
श्रेष्ठानुश्रविके यस्माच्छक्ताः शब्दादिलक्षणे। अष्टात्मकेऽणिमाद्ये च तस्मात्ते चज्ञिरे सुराः ।। ५.
इत्येष विष्ये रागः सम्भूत्याः कारणं स्मृतम्। ब्रह्मशापेन सम्भूता जयाः स्वायम्भुवे जिताः ।। ५.
स्वारोचिषे वै तुषिताः सत्याश्चैवोत्तमे पुनः। तामसे हरयो देवा जाताश्चारिष्णवे तु वै। वैकुण्ठाश्चाक्षुषे साध्या आदित्याः साम्प्रते पुनः ।। ५.
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा। इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।। ५.