ऋषय ऊचुः।। आदित्याः पारिपार्श्वेयाः सिंहा वै क्रोधविक्रमाः। वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ।। ३९.
आभूतसंप्लवे घोरे सर्वप्राणभृतां क्षये। किमवस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ।। ३९.
एते ये वै त्वया प्रोक्ताः सिंहव्याघ्रगणैः सह। ये चान्ये सिद्धिसम्प्राप्ता मातरिश्वा जगाद ह ।। ३९.
इदञ्च परमं तत्त्वं समाख्यास्यामि श्रृण्वताम्। विज्ञातेश्वरसद्भावमव्यक्तं प्रभवं तथा ।। ३९.
तत्र पूर्वगतास्तेषु कुमारा ब्रह्मणः सुताः। सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। ३९.
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः। मुनिः पञ्चशिखश्चैव ये चान्येऽप्येवमादयः ।। ३९.
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते। महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।। ३९.
अनेकरुद्रकोट्यस्तु याः प्रसन्ना महेश्वरी । शब्दादीन्विषयान्भोगान्सत्यस्याष्टविधश्रयात् ।। ३९.
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा। वैहायपदमव्यग्रं भूतानामनुकम्पया ।। ३९.
तत्र यान्ति महात्मानः परमाणुं महेश्वरम्। तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ।। ३९.
ततः पश्यन्ति शर्वाणं परं ब्रह्माणमेव च। देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ।। ३९.
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च। वैश्वानरभूतभव्यव्याघ्राश्चैवानुगामिनः ।। ३९.
आवेश्यात्मनि तान्सर्वान्संख्यायोपद्रवांस्तथा। लोकान् सप्त इमान्सर्व्वान्महाभूतानि पञ्च च ।। ३९.
विष्णुना सह संयुक्तं करोति विकरोति च। स रुद्रो यः साममयस्तथैव च यजुर्मयः ।। ३९.
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात्। एको हि भगवान्नाथो ह्यनादिश्चान्तकृद्द्विजाः ।। ३९.
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः। स्वंस्वमाश्रमसंवासमारोप्याग्निं तथात्मनि ।। ३९.
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना । अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ।। ३९.
व्रतोपवासनिरताः सर्वभूतदयापराः। योगं ह्यनुपमन्दिव्यं प्राप्तं तैश्छिन्नसंशयैः ।। ३९.
प्रपद्य परया भक्त्या ज्ञानयुक्तेन चेतसा। तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।। ३९.
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम्। ब्राह्मणः क्षत्रियो वापि वैश्यो वा स्वक्रियापरः ।। ३९.
लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः। अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ।। ३९.
आभूत संप्लवस्थायी ह्यप्रतीघातलक्षणः। गाणपत्यं स लभते स्थानं वा सर्वकामिकम् ।। ३९.
मद्यपो मद्यपैः सार्द्धं भूतसङ्घैश्च मोदते। सोऽर्च्यमानो महीपृष्ठो मर्त्त्यानां वरदो भवेत्। इति होवाच भगवान्वायुर्वाक्यमिदं वरः ।। ३९.
प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयम्भुवः। ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ।। ४०.
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः । अव्यक्तान्ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ।। ४०.
परं तदनुकल्पानामपूर्णे कल्पसङ्क्षये। उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ।। ४०.
अन्ते द्रुमस्य यम्प्राप्ते पश्चिमस्य मनोस्तदा । अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ।। ४०.
सम्प्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते। प्रत्याहारे तदा तस्मिन् भूततन्मात्रसंक्षये ।। ४०.
महदादेर्विकारस्य विशेषान्तस्य संक्षये। स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसञ्चरे ।। ४०.
आपो ग्रसन्ति वै पूर्व्वं भूमेर्गन्धात्मकं गुणम्। आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते । प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ।। ४०.