राजतेषु महान्तेषु शातकौम्भमयेषु च। सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ।। ३९.
इष्टैः शब्दादिभिर्भागैर्ये भवस्यानुसारिणः । प्रासादवर पुष्पेषु तेषु मोदन्ति सुव्रताः ।। ३९.
ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः । गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ।। ३९.
संहताश्चैवमतुला नानाश्रयकृतास्तथा। एवमादीनि वर्त्तन्ते तेषां प्रासादमूर्द्धनि ।। ३९.
सहस्रपादः प्रासादस्तपनीयमयः शुभः। अनौपम्यैर्वरै रत्नैः सर्वतः परिभूषितः ।। ३९.
स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यमणिसम्प्रभैः। बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसम्प्रभैः ।। ३९.
चुक्रुशुऋषयः श्रुत्वा नैमिषेयास्तपस्विनः। आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ।। ३९.
ऋषय ऊचुः।। के तु तत्र महात्मानो ये भवस्यानुसारिणः। अनुग्राह्यतमाः सम्यक् प्रमोदन्ते पुरोत्तमे। ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ।। ३९.
वायुरुवाच।। श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता। ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ।। ३९.
मध्याहाराश्च मात्राश्च ह्यात्मारामा जितेन्द्रियाः। जितद्वन्द्वा महोत्साहाः सौम्या विगतमत्सराः ।। ३९.
भावस्थाः सर्व्वभूतानामव्यापारा अनाकुलाः। कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना। अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ।। ३९.
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम्। भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ।। ३९.
वैश्वानरमुखाः सर्वे विश्वरूपाः कपर्द्दिनः । नीलकण्ठाः सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ।। ३९.
अर्द्धचन्द्रकृतोऽणीषा जटामुकुटधारिणः । सर्वे दशभुजा वीराः पद्मान्तर सुगन्धिनः ।। ३९.
तरुणादित्यसङ्काशाः सर्वे ते पीतवाससः । पिनाकपाणयः सर्व्वे श्वेतगोवृषवाहनाः ।। ३९.
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः। तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ।। ३९.
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः। क्रीडन्ते विविधैर्भावैर्भोगान् प्राप्य सुदुर्लभान् ।। ३९.
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यौर्विबोधिताः। एकादशानां रुद्राणां कोट्योऽनेकमहात्मनाम् ।। ३९.
एभिः सह महात्मा हि देवदेवो महेश्वरः। भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ।। ३९.
नाहन्तेषान्तु रुद्राणां भवस्य च महात्मनः। नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ।। ३९.
मातरिश्वाऽब्रवीत्पुण्यामित्येतामीश्वरोऽप्युत। अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः। श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीं ततः ।। ३९.
भृशञ्चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम्। सम्भावयित्वा चाप्येनां वायुमूचुर्महाबलम् ।। ३९.
ऋषय ऊचुः।। समीरण महाभाग ह्यस्माकं च त्वया विभो। ईश्वरस्योत्तमं पुण्यमष्टमन्त्वौपसर्गिकम् ।। ३९.
तस्य स्थानं प्रमाणञ्च यथावत्परिकीर्त्तितम्। यो गन्धेन समृद्धं वै परमं परमात्मनः ।। ३९.
महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि । स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ।। ३९.
यस्य भक्तेष्वसंमोहो ह्यनुकम्पार्थमेव च। ब्राह्मलक्ष्म्या स्वयं जुष्ठा या साप्रतिमशालिनी ।। ३९.
ज्योत्स्नया व्याप्य खं चन्द्रं विन्यस्ता विश्वरूपधृक् । विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ।। ३९.
महादेवस्य तुल्यानां रुद्राणान्तु महात्मनाम्। तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवम् ।। ३९.
अपीत्वा खलु सर्वस्य भक्त्यास्माभिस्तु सुव्रताः। नास्ति किञ्चिदविज्ञेयमन्यच्चैवानुगामिनः। प्रश्नं देववर प्राण यथावद्वक्तुमर्हसि ।। ३९.
सूत उवाच।। स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम्। किं मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ।। ३९.