स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान्। शुशुभे रुचिरः श्रीमान्सोदकः सकमण्डलुः ।। ३९.
असिमावेश्य चाङ्गेषु पाण्डुराम्बर धारिणी। उरश्छदेन महता मौक्तिकेन विराजिता। चतुर्भुजा महाभागा विजया लोकसम्मता ।। ३९.
देव्या आद्यः प्रतीहारी श्रीरिवाप्रतिमा परा। विभ्राजती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ।। ३९.
तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः। ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शङ्करम् ।। ३९.
सर्वलक्षणसम्पन्ना वादित्रै रुपबृंहिताः। उपगायन्ति देवेशं गणा गन्धर्वयोनयः ।। ३९.
अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः। शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ।। ३९.
स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्य्यवान्। रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ।। ३९.
तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान्। व्यपेतव्यसनाक्रूराः प्रजानां पालने रताः ।। ३९.
तैः सार्द्धं स महावीर्य्यः शोभते शिखिवाहनः । व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ।। ३९.
ये नृपा विभुधेन्द्राणां काञ्चनस्य प्रदायिनः। ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ।। ३९.
गूढस्वाध्याय तपसस्तथा चैवोञ्छवृत्तयः। एते सभासदस्तस्य देवेशस्य च सम्मताः ।। ३९.
मन्वन्तराण्यनेकानि व्यवर्त्तन्त पुनः पुनः। श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ।। ३९.
व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरस्विनः। स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्म्मिताः।। ३९.
मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः । विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ।। ३९.
अतःपरमिदं भूयो भवेनाद्भुतमुत्तमम्। भूतानामनुकंपार्थं यत्कृतं तन्निबोधत ।। ३९.
मन्दरादिप्रकाशानां बलेनाप्रतिमौजसाम्। हारकुन्देन्दुवर्णानां विद्युद्वननिनादिनाम् ।। ३९.
चूडामणिधराणां वै मेघसन्निभवाससाम्। श्रीवत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ।। ३९.
एवं दिशानां देवानां रूपेणोत्तमशालिनाम्। तस्य प्रासादमुख्यस्य स्तम्भेषूत्तमशोभिषु ।। ३९.
संयताग्निमयीभिस्तु श्रृङ्खलाभिः पृथक्पृथक्। मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ।। ३९.
स्तम्भेऽप्यपासृताषष्टं(?) त्र्यम्बकस्य निवेशने। अथ तत्प्रतिसंपूज्य वायोर्वाक्यं सुविस्मिताः। ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ।। ३९.
भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो। के ते सिंहमहाभूताः क्व ते जाताः किमात्मकाः ।। ३९.
सिंहाः केनापराधेन भूतानां प्रभविष्णुना। वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ।। ३९.
तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह । यद्वै सहस्रं सिंहानामीश्वरेण महात्मना। व्यपनीय स्वकाद्देहात्क्रोधास्ते सिंहविग्रहाः ।। ३९.
भूतानामभयं दत्त्वा पुराबद्धाग्निबन्धने। यज्ञभागनिमित्तं च ईश्वरस्याज्ञया तदा ।। ३९.
तेषां विधानमुक्तेन सिंहेनैकेन लीलया। देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ।। ३९.
निःसृता च महादेव्या महाकाली महेश्वरी। आत्मनः कर्म्मसाक्षिण्या भूतैः सार्द्धं तदानुगैः ।। ३९.
स एष भगवान्क्रोधो रुद्रावासकृतालयः। वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्ज्जनः ।। ३९.
तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै। सन्निवेशस्त्वनौपम्यो मया वः परिकीर्त्तितः ।। ३९.
अतः परं प्रवक्ष्यामि ये तत्र प्रति वासिनः। रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ।। ३९.
नानारत्नविचित्रेषु पताकाबहुलेषु च। सर्वकामसमृद्धेषु वनोपवनशोभिषु ।। ३९.