वरा वरेण्या वरदा वरार्हा वरवर्णिनी। वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे ।। ३९.
पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्। जलं मणिदलप्रख्यमावहन्ति सरिद्वराः ।। ३९.
न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा। न खल्वन्येऽप्रमेयस्य विदुरीशस्य तत्पुरम् ।। ३९.
तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः। पश्यन्तीह महात्मानः पुरन्तद्गोवृषात्मनः ।। ३९.
मध्ये पुरवरेन्द्रस्य तस्याप्रतिमतेजसः। सुमहान्मेरुसङ्गाशो दिव्यो भद्रश्रिया वृतः ।। ३९.
सहस्र पादः प्रासादस्तपनीयमयः शुभः। अनुपमेयै रत्नैश्च सर्वतः स विभूषितः ।। ३९.
स्फटिकैश्चन्द्रसङ्काशैर्वैढूर्यैः सोमसंप्रभैः। बालसूर्य्यप्रभैश्चैव सौवर्णैश्चाग्निसंप्रभैः ।। ३९.
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः। दृढैर्वज्रमयैश्चैव इत्येवं सुमहाहितैः ।। ३९.
जलैश्च विविधाकारैर्दीप्यद्भिरधिवासितम्। चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ।। ३९.
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः। किन्नराणामधीवासैः सन्ध्याभ्राकारराजितैः ।। ३९.
परिवारसमन्तात्तु हेमपुष्पोदकप्रभैः। यथा हि मेरुशैलेन्द्रो हेमश्रृङ्गैर्विराजते ।। ३९.
चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् । एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ।। ३९.
वसन्तप्रतिमा यत्र त्र्यम्बकस्य निवेशने। लक्ष्मीः श्रीश्च वपुर्म्माया कीर्त्तिः शोभा सरस्वती ।। ३९.
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः। नित्या ह्यपरिसङ्ख्याताः परस्परगुणाश्रयाः । भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ।। ३९.
कोटिशतं महाभागा विभज्यात्मानमात्मना। भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः। ।। ३९.
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः। रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ।। ३९.
लीलाविलाससंयुक्तैर्भावैरतिमनोहरैः। गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ।। ३९.
कुब्जा कामनिकामैश्च वरगात्रा हयाननाः । पुण्ड्राश्च विकटाश्चैव करलाश्चिपिटाननाः ।। ३९.
लम्बोदरा ह्रस्वभुजा विनेत्रा ह्रस्वपादिकाः। मृगेन्द्रवदनाश्चान्या गजवक्रोदरास्तथा ।। ३९.
गजाननास्तथैवान्याः सिंह व्याघ्राननास्तथा। लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ।। ३९.
ह्रस्वकुञ्चितकेशाश्च सुन्दर्य्यश्चारुलोचनाः। अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ।। ३९.
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः। रराम भगवांस्तत्र दशबाहुर्महेश्वरः ।। ३९.
नन्दिना च गणैः सार्द्धं विश्वरूपैर्महात्मभिः। तथा रुद्रगणैश्चापि तुल्यौदार्य्यपराक्रमैः ।। ३९.
पावकात्मजसङ्काशैर्यूपदंष्ट्रोत्कटाननैः। वन्द्यमानो विमानश्च पूज्यमानश्च तत्परैः ।। ३९.
सर्वर्तुकुसुमां मालां जिघ्रमाणोरसि स्थितान् । नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ।। ३९.
ईषत्कराल्लम्बोष्ठं तीक्ष्णदंष्ट्रा गणाञचितम्। षडूर्द्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरञ्चीरवाससम् ।। ३९.
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम्। बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ।। ३९.
रराजापदिशन्तस्य वामाग्रकरगोचरम्। महाभैरवनिर्घोषं बलेनाप्रतिमौजसम्। दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ।। ३९.
त्रिशूलं विद्युताभासममोघं शत्रुनाशनम्। जाज्वल्यमानं वपुषा परमं तत्त्विषा युतम् ।। ३९.
असिश्चैवौजसां श्रेष्ठः शीतरश्मिः शशी तथा। तेजसा वपुषा कान्त्या देवेशस्य महात्मनः। शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ।। ३९.