अक्षयाः प्रीतिसंयुक्ता ब्रह्मे तिष्टन्ति योगिनः। ऋषीणां वालखिल्यानां तैर्यथाद्दृतमीश्वरैः ।। ३९.
यथा चैव मया दृष्टं सान्निध्यन्तत्र कुर्वता। अनह्यसत्कृतार्थानामालयं चेश्वरस्य यत् ।। ३९.
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् । ज्ञानं वैराग्यमैश्वर्यन्तपः सत्यं क्षमा धृतिः ।। ३९.
द्रष्टृत्वमात्मसम्बन्धमधिष्ठानत्वमेव च। अव्ययानि दशैतानि तस्मिंस्तिष्ठति शङ्करे ।। ३९.
विबुत्वात्खलु योगाग्निर्ब्रह्मणोऽनुग्रहेरतः। स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।। ३९.
अक्षरं ध्रुवमव्यग्रमष्टमन्त्वौपसर्गिकम्। तस्येश्वरस्य यन्मात्रस्थानं मायामयं परम् ।। ३९.
मायया कृतमाचष्टे मायी देवो महेश्वरः। देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्त्यते ।। ३९.
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत। त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च। भूर्लोकाद्ब्रह्मलोको वैयोजनैः सम्प्रकीर्त्त्यते ।। ३९.
एकयोजनकोटी तु पञ्चाशन्नियुतानि च। ऊर्द्ध्वं भागवताण्डन्तु ब्रह्मलोकात्परं स्मृतम् ।। ३९.
एषोर्द्ध्वगप्रचारस्तु गत्यन्तञ्च ततः स्मृतम् । नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः ।। ३९.
सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः। येभ्योऽधिकर्त्ता संजज्ञो क्षेत्रज्ञो ब्रह्मसंज्ञितः ।। ३९.
तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्। अनुत्पाद्यं परन्धाम परमाणु परेशयम् ।। ३९.
अक्षयश्चाप्यनुह्यश्च अमूर्त्तिर्मूर्त्तिमानसौ। प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ।। ३९.
विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः। सतेजा एष तमसो यः परस्तात्प्रकाशकः ।। ३९.
यदण्डमासीत्सौवर्णं प्रथमन्त्वौपसर्गिकम्। बृहतं सर्वतोवृत्तमीश्वराद्व्यवजायत ।। ३९.
ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीज ईष्यते। योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका ।। ३९.
विबुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च। सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः ।। ३९.
पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः। तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम् ।। ३९.
तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः। शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ।। ३९.
सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः। अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम् ।। ३९.
मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना। शातकौम्भेन महता प्राकारेणार्कवर्चसा ।। ३९.
द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः। तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ।। ३९.
तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम्। न तत्र क्रमते मृत्युर्न तपो न जरा श्रमाः ।। ३९.
न हि तस्य पुरस्यान्यैरुपमां कर्तुमर्हति। सहस्राणां शतं पूर्णं योजनानां दिशो दश ।। ३९.
तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति। भावेन मनसो भूमिर्विन्यस्ता कनकामयी ।। ३९.
रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्। शारदेन्दुर्पकाशानि बालसूर्य्यनिबानि च ।। ३९.
अर्द्ध श्वेतार्द्धरक्तानि सौवर्णानि तथैव च। रथचक्रप्रमाणानि नालैर्मरकतप्रभैः ।। ३९.
सौकुमारेण रूपेण गन्धिनाप्रतिमेन च। तत्र दिव्यानि पद्मानि वनेषूपवनेषु च ।। ३९.
भृङ्गपत्रनिकाशानि तपनीयानि यानि च। अर्द्धकृष्णार्द्धरक्तानि सुकुमारान्तराणि च ।। ३९.
आतपत्र प्रमाणानि पङ्कजैः संवृतानि च। भूयः सप्त महानद्यस्तासान्नामानि बोधत ।। ३९.