चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्व्वशः ।। ३९.
यः सहस्रतमो भागो भागे तु द्विपदां पुनः। धार्म्मिकास्तेन भागेन विज्ञेयाः सम्मिताः पुनः ।। ३९.
सहस्रेणैव भागेन धार्म्मिकेभ्यो दिवङ्गताः। यः सहस्रतमो भागो धार्म्मिकाणां भवेद्दिवि। संमितास्तेन भागेन मोक्षिणस्तावदेव हि ।। ३९.
स्वर्गोपपादकैस्तुल्या यातना स्थानवासिनः। पतिता श्चूर्णमुद्देशाद्दुरात्मानो म्रियन्ति ये। रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ।। ३९.
वेदनाकटुकास्तब्धा यातना स्थानमागताः। उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ।। ३९.
ततो घनात्मिकश्चापि शीतात्मा सततं तपः। एवं सुदुर्लभाः सन्तः स्वर्गे च धार्म्मिका नराः ।। ३९.
एषा संख्या कृता संख्या ईश्वरेण स्वयम्भुवा। गणना विनिवृत्तैषा सङ्ख्या ब्राह्मी च मानुषी ।। ३९.
ऋषय ऊचुः। महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा। उक्ता ह्येते त्वया लोका लोकानामन्तरेण च। लोकान्तरञ्च यादृग्वै तन्नो ब्रूहि यथातथम् ।। ३९.
तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम्। स वायुर्दृष्टतत्त्वार्थ इदन्तत्त्वमुवाच ह ।। ३९.२१० वायुरुवाच।। व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः। प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ।। ३९.
ऋभुः सनत्कुमाराद्याः सम्बुद्धाः शुद्धबुद्धयः। व्यपेतशोका विरजाः सन्तो ब्रह्मेवसत्तमाः ।। ३९.
अक्षयाः प्रीतिसंयुक्ता ब्रह्मे तिष्टन्ति योगिनः। ऋषीणां वालखिल्यानां तैर्यथाद्दृतमीश्वरैः ।। ३९.
यथा चैव मया दृष्टं सान्निध्यन्तत्र कुर्वता। अनह्यसत्कृतार्थानामालयं चेश्वरस्य यत् ।। ३९.
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् । ज्ञानं वैराग्यमैश्वर्यन्तपः सत्यं क्षमा धृतिः ।। ३९.
द्रष्टृत्वमात्मसम्बन्धमधिष्ठानत्वमेव च। अव्ययानि दशैतानि तस्मिंस्तिष्ठति शङ्करे ।। ३९.
विबुत्वात्खलु योगाग्निर्ब्रह्मणोऽनुग्रहेरतः। स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।। ३९.
अक्षरं ध्रुवमव्यग्रमष्टमन्त्वौपसर्गिकम्। तस्येश्वरस्य यन्मात्रस्थानं मायामयं परम् ।। ३९.
मायया कृतमाचष्टे मायी देवो महेश्वरः। देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्त्यते ।। ३९.
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत। त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च। भूर्लोकाद्ब्रह्मलोको वैयोजनैः सम्प्रकीर्त्त्यते ।। ३९.
एकयोजनकोटी तु पञ्चाशन्नियुतानि च। ऊर्द्ध्वं भागवताण्डन्तु ब्रह्मलोकात्परं स्मृतम् ।। ३९.
एषोर्द्ध्वगप्रचारस्तु गत्यन्तञ्च ततः स्मृतम् । नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः ।। ३९.
सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः। येभ्योऽधिकर्त्ता संजज्ञो क्षेत्रज्ञो ब्रह्मसंज्ञितः ।। ३९.
तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्। अनुत्पाद्यं परन्धाम परमाणु परेशयम् ।। ३९.
अक्षयश्चाप्यनुह्यश्च अमूर्त्तिर्मूर्त्तिमानसौ। प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ।। ३९.
विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः। सतेजा एष तमसो यः परस्तात्प्रकाशकः ।। ३९.
यदण्डमासीत्सौवर्णं प्रथमन्त्वौपसर्गिकम्। बृहतं सर्वतोवृत्तमीश्वराद्व्यवजायत ।। ३९.
ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीज ईष्यते। योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका ।। ३९.
विबुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च। सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः ।। ३९.
पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः। तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम् ।। ३९.
तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः। शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ।। ३९.
सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः। अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम् ।। ३९.