इज्यायां व्रतमालोपात्सन्दंशे नरके पतेत्। स्कन्दन्ते यदि वा स्वप्ने व्रतिनो ब्रह्मचारिणः ।। ३९.
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये। तेसर्वे नरकं यान्ति नियतन्तु श्वभोजने ।। ३९.
वर्णाश्रमविरूद्धानि क्रोधहर्षसमन्विताः। कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः ।। ३९.
उपरिष्टात्सितो घोर उष्णात्मा रौरवो महान्। सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ।। ३९.
एवमादि क्रमेणैव वर्ण्यमानान्निबोधत। भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ।। ३९.
अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः। रौरवः प्रथमस्तेषां महा रौरव एव च ।। ३९.
अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः। तृतीयः कालसूत्रः स्यान्महाहविविधिः स्मृतः ।। ३९.
अप्रतिष्ठ श्चतुर्थः स्यादवीची पञ्चमः स्मृतः। लोहपृष्ठस्तमस्तेषामविधेयस्तु सप्तमः ।। ३९.
घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः। सुदारुणस्तु शीतात्मा तस्याधस्तात्तपोऽधमः ।। ३९.
सर्पो निकृन्तनः प्रोक्तः कालसूत्रेति दारुणः। अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ।। ३९.
अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः। तस्मात्सुदारुणो लोहः कर्म्मणां क्षयणाच्च सः ।। ३९.
तथाभूतो शरीरत्वादविधिभ्यस्तु स स्मृतः। पीडबन्धवधासङ्गादप्रतीकारलक्षणः ।। ३९.
ऊर्द्ध्वं सैलमितास्ते तु निरालोकाश्च ते स्मृताः। दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.
ऊर्द्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ। कूटाङ्गारप्रमाणैश्च शरीरी मूत्रनायकः ।। ३९.
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः। दुःख प्रकर्षश्चोग्रत्वं तेषु सर्वेषु वै स्मृतः ।। ३९.
यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः। दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.
तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः। देवाश्च नारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ।। ३९.
धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः। उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ।। ३९.
पश्यन्ति नारकान्देवा ह्यधोवक्रान् ह्यधोगतान्। नारकाश्च तथा देवान् सर्वान्पश्यन्त्यधो मुखान् ।। ३९.
अनग्रमूलता यस्माद्धारणाश्च स्वभावतः। तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ।। ३९.
एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते। अथाब्रुवन्पुनर्वायुं ब्राह्मणाः सत्रिणस्तदा ।। ३९.
ऋषय ऊचुः।। सर्वेषामेव भूतानां लोकालोकनिवासिनाम्। संसारे संसरन्तीह यावन्तः प्राणिनश्च तान् ।। ३९.
सह्ख्यया परिसङ्ख्याय ततः प्रब्रूहि कृत्स्नशः। ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ।। ३९.
वायुरुवाच।। न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथञ्चन। अनाद्यन्ताश्च संकीर्णा ह्यप्यूहेन व्यवस्थिताः। गणना विनिवृत्तैषामानन्त्येन प्रकीर्त्तिताः ।। ३९.
न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः। चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते नराधिपः ।। ३९.
अनाध्यानादवेद्यत्वान्नैव प्रश्नो विधीयते। ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ।। ३९.
यः सहस्रतमो भागः स्थावराणां भवेदिह। पार्थिवाः कृमयस्तावत्संसेकाद्येषु सम्भवाः ।। ३९.
संसेकजानाम्भागेन सहस्रेणैव सम्मिताः। औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ।। ३९.
सहस्रेणैव भागेन सत्वानां सलिलौकसाम् । विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ।। ३९.
यः सहस्रतमो भागस्तेषां वै पक्षिणां भवेत्। पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ।। ३९.