क्षीरं सुरां च मांसं च लाक्षां गन्धं रसन्तिलान्। एवमादीनि विक्रीणन्घोरो पूयवहे पतेत् ।। ३९.
यः कुक्कुटानि बध्नाति मार्जारान्सूकरांश्च तान्। पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ।। ३९.
आजीविको माहिषकस्तथा चक्रध्वजी च यः। रङ्गोपजीविको विप्रः शाकुनिग्राम याजकः ।। ३९.
अगारदाही गरदः कुण्डाशी सोमविक्रयी। सुरापो मांसभक्षश्च तथा च पशुघातकः ।। ३९.
विश(श्व)स्ता महिषादीनां मृग हन्ता तथैव च। पर्वकारश्च सूची च यश्च स्यान्मित्रघातकः। रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ।। ३९.
उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये। पतन्ति नरके घोरे विङ्भुजे नात्र संशयः ।। ३९.
मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः। पतेत्तु नरके घोरो मूत्राकीर्णे स पापकृत् ।। ३९.
मधुग्राहाबिहन्तारो यन्ति वैतरणीं नराः। उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्ज्जिताः ।। ३९.
क्रोधना दुःखदाश्चैव कुहकाः कृष्टगामिनः। असि पत्रवने छेदी तथा ह्यौरभ्रिकाश्च ये। कर्त्तनैश्च निकृष्यन्ते मृगव्याधाः सुदारुणैः ।। ३९.
आश्रमप्रत्यवसिता अग्निज्वाले पतन्ति वै। भौज्यन्ते श्याम शबलैरयस्तुण्डैश्च वायसैः ।। ३९.
इज्यायां व्रतमालोपात्सन्दंशे नरके पतेत्। स्कन्दन्ते यदि वा स्वप्ने व्रतिनो ब्रह्मचारिणः ।। ३९.
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये। तेसर्वे नरकं यान्ति नियतन्तु श्वभोजने ।। ३९.
वर्णाश्रमविरूद्धानि क्रोधहर्षसमन्विताः। कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः ।। ३९.
उपरिष्टात्सितो घोर उष्णात्मा रौरवो महान्। सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ।। ३९.
एवमादि क्रमेणैव वर्ण्यमानान्निबोधत। भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ।। ३९.
अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः। रौरवः प्रथमस्तेषां महा रौरव एव च ।। ३९.
अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः। तृतीयः कालसूत्रः स्यान्महाहविविधिः स्मृतः ।। ३९.
अप्रतिष्ठ श्चतुर्थः स्यादवीची पञ्चमः स्मृतः। लोहपृष्ठस्तमस्तेषामविधेयस्तु सप्तमः ।। ३९.
घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः। सुदारुणस्तु शीतात्मा तस्याधस्तात्तपोऽधमः ।। ३९.
सर्पो निकृन्तनः प्रोक्तः कालसूत्रेति दारुणः। अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ।। ३९.
अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः। तस्मात्सुदारुणो लोहः कर्म्मणां क्षयणाच्च सः ।। ३९.
तथाभूतो शरीरत्वादविधिभ्यस्तु स स्मृतः। पीडबन्धवधासङ्गादप्रतीकारलक्षणः ।। ३९.
ऊर्द्ध्वं सैलमितास्ते तु निरालोकाश्च ते स्मृताः। दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.
ऊर्द्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ। कूटाङ्गारप्रमाणैश्च शरीरी मूत्रनायकः ।। ३९.
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः। दुःख प्रकर्षश्चोग्रत्वं तेषु सर्वेषु वै स्मृतः ।। ३९.
यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः। दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ।। ३९.
तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः। देवाश्च नारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ।। ३९.
धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः। उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ।। ३९.
पश्यन्ति नारकान्देवा ह्यधोवक्रान् ह्यधोगतान्। नारकाश्च तथा देवान् सर्वान्पश्यन्त्यधो मुखान् ।। ३९.
अनग्रमूलता यस्माद्धारणाश्च स्वभावतः। तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ।। ३९.