स्वायम्भुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः। नामान्यासन् पुनस्तानि तुषितानां निबोधत ।। ५.
प्राणोऽपानस्तथोदानः समानो व्यान एव च। चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ।। ५.
प्राणापानावुदानश्च समानो व्यान एव च। नामान्येतानि पूर्वन्तु तुषितानां स्मृतानि ह ।। ५.
वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः । धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ।। ५.
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। ध्रुवपुत्रो भवो नाम्ना कालो लोकप्रकालनः ।। ५.
सोमस्य भगवान् वर्चा बुधश्च ग्रहबोधनः। रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ।। ५.
धारोर्मिकलिलाश्चैव त्रयश्चन्द्रमसः सुताः। आपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ।। ५.
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः। अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत। तस्य शाखो विशखश्च नैगमेयश्च पृष्ठजाः ।। ५.
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः। अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य च ।। ५.
प्रत्यूषस्य विदुः पुत्र ऋषिर्नाम्ना तु देवलः। द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।। ५.
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी। योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।। ५.
प्रभासस्य तु या भार्या वसूनामष्टमस्य ह। विश्वकर्मा सुतस्तस्या जातः शिल्पिप्रजापतिः ।। ५.
स कर्त्ता सर्वशिल्पानां त्रिदशानाञ्च वर्द्धकिः। भूषणानाञ्च सर्वेषां कर्त्ता कारयिता च सः ।। ५.
सर्वेषाञ्च विमानानि दैवतानां करोति सः। मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ।। ५.
विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः। क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ।। ५.
कुरुवान् प्रभवांश्चैव रोचमानश्च ते दश। धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ।। ५.
मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः । मुहूर्त्ताश्च मुहूर्त्तायां घोषं लम्बा व्यजायत ।। ५.
सङ्कल्पायान्तु संजज्ञे विद्वान् सङ्कल्प एव च। नागवीथ्यस्तु जाम्याञ्च पथत्रयसमाश्रिताः ।। ५.
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत। एष सर्गः समाख्यातो विद्वान् धर्मस्य शाश्वतः ।। ५.
मुहूर्त्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः। नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत ।। ५.
अहोरात्रविभागश्च नक्षत्राणि समासतः। मुहूर्त्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ।। ५.
अहोरात्रकलानान्तु षट्शतीत्यधिका स्मृता। रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ।। ५.
ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु। अविशेषेषु कालेषु योज्यः स पितृदानतः ।। ५.
रौद्रः सार्वस्तथा मैत्रः पिण्ड्यवासव एव च। आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ।। ५.
प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निऋतिस्तथा। वारुणश्च तथार्यम्णो भागाश्चापि दिनाश्रिताः ।। ५.
एते दिनमुहूर्त्ताश्च दिवाकरविनिर्मिताः। शङ्कुच्छायानिशेषेण वोदेतव्याः प्रमाणतः ।। ५.
अजास्तथाहिर्बुध्न्यश्च पूषा हि यमदेवताः। आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ।। ५.
ब्रह्मसौम्यस्तथादित्यो बार्हस्पत्योऽथ वैष्णवः। सावित्रोऽथ तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ।। ५.
एकरात्रिमुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च। इन्दोर्गत्युदया ज्ञेया नालिकाः पादिकास्तथा। कालावस्थास्विगास्त्वेते मुहूर्ता देवताः स्मृताः ।। ५.
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च। दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ।। ५.